Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
२१९
अन्यथाख्यातिवादटिप्पनम् । नुगम इत्यर्थः । तृतीयं दूषयति-नापीति (९७-२४) । तस्येति (९७-२४) तस्यान्योन्याभावस्य । भेदाग्रहस्य प्रवृत्तिकारणत्वे दूषणान्तरमाह-किच्चेति (९७-२५)। भेदो नाम रजतान्योन्याभावस्तस्याग्रहो ज्ञानाभावः । तस्य प्रव. तैकत्वं सत्यरजतस्थले न सम्भवति । विकल्प्य दूषयति भेदाग्रह, तत्रेति (९८-१) पुरोवर्त्तिना सह रजतभेदस्याग्रहो रजतभेदाग्रहो वा, किं वा येन केनचित् सह रजतभेदस्याग्रहो वा भेदाग्रहः । अन्त्ये आह-अतिप्रसङ्गादिति (९४-१) तदेव विवृणोति-अन्येति (९८-२)। घटादिषु रजतभेदग्रहे विद्यमानेऽपि सत्यरजतस्थले इंदं रजतमिति ज्ञानात् प्रवृत्तेः । प्रथमं दूषयति-अप्रसिद्धरिति (९८-२)। यदि पुरोवर्तिरजतयोर्यो भेदस्तस्य यो ग्रहस्तदभावो भेदाग्रहसमेपासस्थले प्रवृत्तिर्भवतु । कुतः ? पुरोवर्तिनि शुक्तिः रजतम् [इति तयोर्भेदः प्रसिद्धी वर्तते, तदग्रहः कारणं भवतु, परं सत्यरजतस्थले भेदाग्रहो न सम्भवति । कुतः ! सत्यरजतस्थले पुरोवत्येव रजतं ज्ञातमिति कृत्वा पुरोवर्तिरजतयोर्भेदः प्रसिद्ध एव नास्ति, कथं भेदाग्रहः कारणम् ।
___ननु पुरोवर्तिनि रजतत्वप्रकारकभेदग्रहस्तदभाव एव कारणमित्याशङ्क्य निराकरोति-नापीति (९८-२) । सत्यरजतस्थले प्राभाकरमते रजतत्वप्रकारकभेदग्रहः प्रसिद्धो न वा । यदि च प्रसिद्धस्तदा पुरोवर्तिनि रजतभेदस्याभावात् तत्र पुरोवर्तिनि रजतत्यप्रकार कभेदग्रहेऽन्यथाख्यातिः स्यात् । यदि अप्रसिद्धस्तदा आह-रजतत्वप्रकारकेति (९८-३) । रजतत्वप्रकारकभेदग्रहस्वन्मते प्रसिद्ध एव नास्ति, कस्याभावः कारणमित्यर्थः । यदि पुरोवर्तिनि रजतस्वप्रकारकभेदग्रहामावः कारणं, तदा दूषणान्तरमाह-सामान्येति (९८-३)। यदा द्रव्यत्वेन रूपेगोपस्थिते रजते यदी प्रवर्तते तदानी रजतत्वप्रकारकभेदग्रह एव नास्ति, तदानी रजतत्वप्रकारकभेदग्रहाभावे विद्यमानेऽपि प्रवृत्तिन जायते इति कथं से प्रवर्तक इत्यर्थः ।
___ अत्राशङ्कते-न चेति (९८-४) तत्रेति । यत्र द्रव्यत्वेन रूपेण पुरोवर्तिनो ज्ञानं तत्र रजतत्वेन रूपेण पुरोवर्तिन उपस्थितिरेव नास्ति इतिकृत्वा पुरोवर्तिनि रजतत्वप्रकारिका या उपस्थितिः साऽपि कारणमित्यर्थः । त_न्यथाख्यातिरेव सिध्यतीत्याह-विशिष्टेति (९८-५)। यदि पुरोवर्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं प्रवृत्तिकारणं तदा विसंवादिप्रवृत्तिस्थले शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं
१. प्रसिद्धौ सत्यां अन्यथाख्यातिः स्यात् । २. Use of two यदा-s seems to be also a stylistic peculiarity of गुणरत्न । ३. भेदाग्रहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270