Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
अन्यथाख्यातिवादटिप्पनम् ।
२०७ नीयमित्याह-किं त्विति (९५-१२) । यत्र कुत्रापि चेद्रजतभेदाग्रहः कारणं तदा पुरोवर्तिनि शुक्तौ रजतभेदग्रहे विद्यमानेऽपि तदानी प्रवृत्तिः स्यात् । एवं पुरोवर्तिनि भेदाग्रहमात्रं चेत् कारणं तदा पुरोवर्तिनि शुक्तो नेदं रजतमिति भेदग्रहकाले द्रव्यभेदाग्रहस्य विद्यमानत्वात् प्रवृत्तिः स्यादिति । अत एवोक्तं न यस्य कस्यापीति(९५१२) । द्रव्यभेदाग्रहादजतभेद ग्रहकाले प्रवृत्तिर्न जायते । एवं यत्र कुत्रापीति गेहस्थरजतादौ रजतभेदाग्रहे विद्यमानेऽपि पुरोवर्तिनि रजभेदग्रहकाले प्रवृत्तिन जायते इतिकृत्वाऽतिप्रसङ्गवारणार्थ तस्मिन् पुरोवर्तिनि रजतप्रतियोगिक भेद ग्रहाभावः कारणं प्रवृत्तौ ।
___ एवं सति कथं लाघवगौरवमित्याह- तथा चेति (९५-१३) । पुरोवर्तिनि रजतभेदविषयकग्रहाभावो नाम रजतप्रतियोगिक भेद विषयकग्रहाभावः । अयमर्थः-पुरोवर्तिनि शुक्तौ रजतप्रतियोगिको भेदो वर्त्तते तस्य ज्ञानं यदा नास्ति स भेदग्रहाभावः। तस्य भेदाग्रहस्य प्रवृत्तौ कारणत्वम् वक्तव्यं, किं वा क्लुप्तस्य रजतग्रहस्य कारणस्य पुरोवर्त्तिविशेष्यकत्वं वाऽवच्छेदकं कल्पनीयमित्याह-पुरोवर्तिनीति ( ९५-१३) । पुरोवत्तिनि रजतग्रहस्येति (९५-१५)। पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानस्येत्यर्थः । आधेति (९५-१६ )। पुरोवर्तिनि रजतप्रतियोगिक भेदग्रहाभावस्येत्यर्थः । अभावरूपत्वेन गौरवमित्यर्थः। द्वितीय इति (९५-१६)। पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्येत्यर्थः । भावरूपत्वेन प्रवृत्ति प्रति कारणत्वे लाघवमित्यर्थः ।
अत्र प्राभाकरः शङ्कतेन चैवमिति (९५-१६)। यदि पुरोवर्त्तिविशेष्य- । करजतत्वप्रकारक ज्ञानस्य लाघवात् कारणत्वं तदा विसंवादिप्रवृत्तिस्थले इदमिति ग्रहणात्मकं रजतमिति स्मरणात्मकमेतादृशज्ञानद्वयातिरिक्तमन्यथाख्यातिरूपं विशिष्ट ज्ञानमतिरिक्तं कल्पनीयं स्यादित्यतिरिक्तधर्मिकल्पनागौरवं स्यादिति शङ्कार्थः ।।
समाधत्ते नैयायिकः-प्रमाणवत इति (९५-१७) । अवच्छेदकलाघवे व्यक्तिगौरवस्यादोषत्वात् । यथा घटं प्रति दण्डस्य कारणता चैत्रीयदण्डत्वेन वा कारणता दण्डत्वेन वा । तत्र लाघवात् दण्डत्वेनैव कारणत्वं न तु चैत्रीयदण्डत्वेन । तत्र यदि लाघवेन दण्डत्वेन कारणता स्यात् तदा बहूनां चैत्रमैत्रदण्डानां कारणता स्यात् । यदि चैत्रदण्डत्वेन कारणत्वं तर्हि चैत्रदण्डस्यैव एकव्यक्तेरेव कारणत्वं न बहूनाम् । तत्र दण्डत्वस्य कारणतावच्छेदकस्य लघुभूतत्वे बहूनां व्यक्तीनां कारणत्वं यथा न दोषः, तथा रजतत्वप्रकारकज्ञानस्य पुरोवर्त्तिविशेष्यकत्वे कारणतावच्छेदके लघुभूते सति अन्यथाख्यातिरूपविशिष्टज्ञानकल्पनागौरवं न दोषाय ।
१ Add इति here.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270