Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 243
________________ २०६ न्यायसिद्धान्तदोप ___ अत्र शङ्कते नैयायिकः-नन्विति (९५-५)। भेदाग्रहश्चत् प्रवर्तकस्तदा भेदाग्रहस्य संवादिप्रवृत्तावपि विद्यमानत्वात् विसंवादिप्रवृत्तावपि भेदाग्रहस्य विद्यमानत्वात् कारणस्याविशेषप्रवृत्तिलक्षणे फले संवादिविसंवादिवैचित्र्यं न स्यात् इत्यर्थः । अन्यथाख्यातिपक्षे तु वैचित्र्यमुपपद्यते इत्याह-तस्मादिति (९५-६)। अभेदग्रहः रजते रजताभेदग्रहः संवादिप्रवृत्तिहेतुः । अथ च शुको रजतभेदानेहः विसंवादिप्रवृ. त्तिहेतुः । ततः किमित्यत आह-तथा चेति (९५-७) । प्रवृत्तिसामान्ये अनुगतकारणाभावोऽननुगमः । समाधत्ते प्राभाकरः-मैवमिति (९५-७)। संवादिप्रवृत्तावपि न रजताभेदग्रहः कारणं किन्तु रजतभेदाग्रह एव । एवं संवाद्यसंवादिप्रवृत्तिवैचित्र्यं तु यत्र रजते एव रजतस्य भेदाग्रहः पुरोवत्तिनि अविद्यमानेष्टभेदाग्रह इति यावत् । स संवादिप्रवृत्तिजनकः पुरोवर्तिनि शुक्तौ विद्यमानो य इष्टभेदो रजतभेदस्तस्याग्रहो विसंवावादिप्रवृत्ती हेतुरित्याह--विपरीत इति (९५-८)। अरजते शुक्तौ विद्यमानस्य रजतभेदस्य योऽग्रहः स विसंवादिप्रवृत्तिहेतुस्तथा चानुगमः । भेदाग्रहस्यैव प्रवृत्तिसामान्ये कारणमागतं प्रवृत्तिवैचित्र्यं तु विद्यमानाविद्यमानभेदाग्रहादेव भविष्यतीति पूर्वपक्षः । सिद्धान्तमाह-रजतत्वेति (९५-१०)। रजतत्वप्रकारकज्ञानं रजतव्यवहारे कारणमिदमुभयवादिसिद्धम् । तच्च स्मरणरूपं वा अनुभवरूपं वा । पुरोवर्तिनि अनुभवरूपं नैयायिकानाम् , स्मरणरूपं प्राभाकराणाम्-अत्र विवादः। एवं सति किमित्यत आह - तत्रेति (९५-११)। यदि रजतत्वप्रकारज्ञानमात्रं कारणं तदा नेदं रजतमिति मेदग्रहकालेपि रजतत्वप्रकारकं स्मरणरूपं ज्ञानं तिष्ठत्येव तदापि प्रवृत्तिः स्यात् । तथा च तत्रातिप्रसङ्गवारणार्थ भेदाग्रहः कारणान्तरं वा वक्तव्यम् । अथवा व्यवहर्त्तव्यविशेष्यकत्वं नाम पुरोवर्त्तिविशेष्यकत्वम् क्लृप्तकारणे रजतत्वप्रकारकेऽवच्छेदकं वा कल्पनीयम् । तत्र क्लुप्तकारणे पुरोवर्तिविशेष्यकत्वस्यैवावच्छेदकत्वे लाघवमित्याह-अतन्त्रत्वे इति (९५-११)। अतन्त्रत्वेऽनवच्छे. दकत्वे । सोऽपीति (९५-१२)। स भेदाग्रहः । यत्र नेदं रजतमिति भेदग्रहो वर्तते तत्रातिप्रसङ्गवारणार्थ भेदाग्रहः कारणान्तरं वक्तव्यम् । न तस्य भेदाग्रहस्य केवलं कारणान्तरत्वमात्रमपि तु तस्मिन् भेदाग्रहेऽपि किश्चित् कारणतावच्छेदकं कल्प १. रजतमिति ज्ञानं । २. इदं रजतं न भवतीति भेदस्याग्रहः । ३. रजतत्वप्रकारकज्ञा नस्य रजतव्यवहारं प्रति कारणं क्लुप्तम् । ४. गेहादौ रजतत्वप्रकारकं ज्ञानं वर्त्तत एव । ५. Use of both केवलम् and मात्र is another stylistic peculiarity of गुणरत्न. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270