Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 241
________________ न्यायसिद्धान्तदीपे संसर्गाग्रहः, तस्मादेव प्रवृत्तिः । ननु बाध्पे धूमज्ञानात् पूर्वं वहेरसंसर्गाग्रहमात्रात् वयर्थी निष्कम्पं प्रवर्त्तते । तदसंसर्गाग्रहादिति (९४ - १४) । धूमज्ञानानन्तरं या स्वतन्त्रोपस्थितेष्टवह्निस्तदसंसर्गाग्रहादित्यर्थः । तर्हि पीतः शङ्ख इतिवत् साक्षात्करोमीति व्यवहारः स्यान्न तु अनुमिनीमीत्यत आह- अनुमिनोमीति (९४ - १४) । तथा च यत्र प्रत्यक्षोपस्थिते विशेष्ये विशेषणस्यासंसर्गाग्रहादप्रवृत्तिस्तत्र साक्षात्करोति व्यवहारः, यत्र च प्रत्यक्षोपस्थिते विशेष्ये* व्याप्यस्यासंसर्गाग्रहाद् व्यापकस्यासंसर्गाग्रहस्तस्मात् प्रवृत्तिस्तत्रानुमिनोमीति व्यवहारः । भवतां नैयायिकानां यद् व्याप्यज्ञानं तत्स्थानाभिषिक्तोऽस्माकं व्याप्यासंसर्गाग्रहः । अतो निर्वह्नौ पर्वते वह्निव्याप्यधूमज्ञानाभिषिक्तोऽस्माकं वह्निव्याप्यधूमासंसर्गाग्रह एव भवतां वह्निरूपव्यपिकानुमितिस्थानाभिषिकोऽस्माकं प्राभाकराणां वह्निरूपव्यापका संसर्गाग्रह एवेति । तस्माद्वह्नयसंसर्गाग्रहादेव वह्निमनुमिनोमीति व्यवहारः, वह्नचर्थिनो निष्कम्पा प्रवृत्तिरेतदेवाह-लिङ्गेति (९४-१५) । उपस्थितं यल्लिङ्गं धूमादि तस्यासंसर्गाग्रहाद्यो व्यापकस्य वह्नेरसंसर्गाग्रह इत्यर्थः । निबन्धनमिति (९४ - १५ ) । निष्कम्पप्रवृत्तिरनुमिनोमोति व्यवहारश्च तयोर्द्वयोर्निमित्तमित्यर्थः । उपसंहरति - तस्मादिति (९४ - १६) । एताबतेति (९४ - १६) । अनुमिनोतीति व्यवहारानुरोधेन अन्यथाख्यातिर्न सिद्धेत्यर्थः । अन्यथाख्यातिपक्षे दोषान्तरमाह - किठचेति (९४ - १७) । अनयोरिति (९४ - १८) । अनयोः शुक्तिरजतयोः । तादात्म्यमभेदः । सामानाधिकरण्यमिति (९४-१८) एकाधिकरण्यम् । रजतत्वेनेति ( ९४ - १८) । रजतत्वेन प्रकारेण शुतिर्वा भासते प्रथमं दूषयति-समूहेति (९४ - १९) । यदि भ्रमरूपज्ञानस्य शुक्तिरजते एव विषयस्तर्हि शुक्तिरजते एतादृशं समूहालम्बनमपि भ्रमः स्यात्, अस्मिन् समूहालम्बने शुक्तिः रजतं द्वयमपि विषयो भवत्येव । असदिति (९४२०) । तथा च शुक्तिरजतयोस्तादात्म्यमभेदः स चासन्नेव सोऽभेदश्चेदमन्नेव स्वपुष्पादिवद् भासते तदा असतः पदार्थस्य भानमसत्ख्यातिः स्यात् । अत एवेति । (९४ - २०) यथा शुक्तिरजतयोस्तादात्म्यमसदेव, तथा शुक्तित्वरजतत्वयोः सामानाधिकरण्यमप्यसदेव, कुतः ! शुक्तित्वरजतत्वयोः विरुद्धत्वात् । तृतीयेति (९४ - २०)। रजतत्वेन प्रकारेणेति तृतीयार्थ इत्यर्थः । तथा च तृतीयार्थी यदि रजतत्वसम्बन्धमात्रं तर्हि रजतत्वसम्बन्धः शुक्तिश्च इदं द्वयं भ्रमविषयः तर्हि शुक्तिरजतत्वं सम्बन्ध इति समूहालम्बनेऽपि द्वयं विषयो भवत्येव । यदि शुक्तिरजतयोरभेदरूपस्तृतीयार्थस्तदा पूर्वोक्ता असत्ख्यातिः स्यात् । १. प्रवृत्तिः । २. शङ्ख । ३. पीतत्वस्य । ४. पर्वते । ५. वह्नेरसंसर्गाग्रहः । २०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270