Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 240
________________ अन्यथाख्यातिवादटिप्पनम् । २०३ रिति । सेति (९४ - ६ ) । सा घूमोपस्थितिरुपस्थितवह्निमद्भेदाग्रहार्थम् । अत्रापि वह्न्यसंसर्गाग्रह इत्युपलक्षणं वह्निमभेदाग्रहोऽपि द्रष्टव्यः । पूर्वं धूमाद्वह्नयुपस्थितिर्जायते पश्चादुपस्थिते वह्नौ उपस्थित वह्निमदभेदाग्रहात् वह्निमति प्रवृत्तिरिदं च प्रवृत्तिपक्षे । यदा वह्नावेव प्रवृत्तिस्तदा वह्नित्वा संसर्गाग्रहादिति द्रष्टव्यम् । दूषयति- पूर्वमपीति (९४-७) । यदि वह्न्युपस्थित्यर्थे धूमोपस्थितिस्तदा धूलीपटले धूमप्रतिसन्धानात् पूर्वमपि वहचुपस्थितिर्वर्त्तत एव । उपसंहरति- तस्मादिति (९४-७ ) | यदि धूमग्रहस्यापेक्षा वर्त्तते चेत् वह्नयर्थिप्रवृत्तौ तदा निर्वह्नौ पर्वते वह्न्यर्थिप्रवृत्त्यनुरोधेन वह्नेर्भ्रमरूपानुमितिरेव स्वीकर्त्तव्येत्यर्थः । कुतो ! वह्नेर्भ्रमरूपानुमित्यर्थं धूमज्ञानस्योपयोगो वर्त्तते निर्वह्नौ पर्वते भेदाग्रहे तु धूमज्ञानस्योपयोगो नास्त्येव । दूषणान्तरमाह- किचेति ( ९४ - ९) । यदि अन्यथाख्यातिरूपं ज्ञानं नास्ति तदा निर्वौ पर्वते धूमज्ञानानन्तरं वयर्थिप्रवृत्तिर्जायते । सा च प्रवृत्तिः वह्निमनुमिनोमीति अनुव्यवसायानन्तरं जायते । यदि निर्वह्नौ पर्वते वह्ने भ्रमरूपा चेदनुमितिर्नास्ति तदा सोऽनुव्यवसायो न स्यात् । अनुव्यवसाय इत्युक्तौ परमतानुरोधात् व्यवहार इत्युक्तम् । त (त्व) त्पक्ष ( ९४ - २ ) इति प्राभाकरपक्षे इत्यर्थः । ननु प्रत्यक्षोपस्थिते पर्वते विशेष्ये वह्नेरसंसर्गाग्रहादेव वह्निमद्भेदाग्रहादेव वा अयं वह्निमनुमिनोमीति व्यवहारो वह्निवमभेदाग्रहादेव भविष्यति इत्यत आहप्रत्यक्ष ( ९४ - ९) इति । तथा च प्रत्यक्षोपस्थिते विशेष्ये योऽसंसर्गाग्रहेण व्यवहारः स तु साक्षात्करोमीत्येव जायते न तु अनुमिनामीति । तत्र दृष्टान्तमाह-पीत(९४ - १०) इति । तथा च पीतः शङ्ख इत्यत्र प्रत्यक्षोपस्थिते शङ्खे पीतत्वा संसर्गाग्रहेण पीतं शङ्खं साक्षात्करोमीत्येवं व्यवहारो जायते । तथा निर्वह्नौ पर्वते वरसंसर्गाहेण वह्निं साक्षात्करोमीत्येव स्यात् न तु वह्निमनुमिनोमीत्यर्थः । त्वयेति ( ९४ - ११) प्राभाकरेण । प्राभाकरः समाधत्ते - एतदपीति (९४ - ११) । पूर्वमिति (९४ - ११) । यद्यपि धूमज्ञानात् पूर्वं वह्न्यसंसर्गामहो वर्त्तते तथापि तत्र निर्वह्नित्वस्याप्यसंसर्गाग्रहो वर्त्तते । यतो धूमज्ञानात् पूर्वं वह्नेरप्यभावज्ञानं नास्ति । अथ च निर्वह्नित्वस्याप्यभावज्ञानं नास्ति । धूमज्ञानानन्तरं तु यः वह्नेरसंसर्गाग्रहः स स्वतन्त्रोपस्थितेष्टवह्नय १. यदि is redundant here, but as I have noted already, this may be a stylistic peculiarity of गुणरत्न | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270