Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 238
________________ अन्यथाख्यातिवाद टिप्पनम् । २०१ एवं सति रजत एव नेदं रजतमिति यदा ग्रहः तदानीमयं रजतभेदग्रहस्तु न भवति । कुतः ? रजते रजतभेदग्रहेऽन्यथाख्यातिः स्यात् । तथा च अत्र रजतभेदाग्रहे विद्य मानेऽपि यदि रजते प्रवृत्तिर्न जायते प्रत्युत निवृत्तिरेव जायते । एवं सति रजतभेदाग्रहरूपे कारणे विद्यमानेऽपि यदि प्रवृत्तिलक्षणं कार्यं न जायते तदा तद्भेदाग्रहमात्रं कारणमेव न भवति किन्तु भेदाग्रहे विशेषः । स च विशेषः फलबलकल्प्यः । तथा च यत्र प्रवृत्तिलक्षणं फलं दृश्यते स एव भेदाग्रहः कारणम्, न तु भेदाग्रह सामान्यम् । आरोप (९३ - १७) इति । त्वया नैयायिकेनापि कुत्रचित् शुक्तौ रजतारोपो जायते कुत्रचित् रजतेऽपि रजतज्ञानं न जायते यत्र आरोपाsनारोपयोः किं निमित्तं त्वया वक्तव्यम् । तस्माद्भेदाग्रहे कश्चन विशेषः आरोपरूपफलानुरोधात् कल्पनीयः । रजतमिति शुक्तौ आरोपः । तस्मिन्नारोपे यन्नियामकं तदेवास्माकं प्राभाकराणां प्रवृत्तौ नियामकम् । एवं सति रजत एव नेदं रजतमिति ग्रहस्तत्र इदं रजतमिति आरोपो न जायते नैयायिकमते । कुतः ? भेदाग्रहविशेषाभावात् । स मेदाग्रह विशेषः रजतार्थिप्रवृत्तिप्रयोजकोऽस्माकमपि नास्ति येन कृत्वा नेदं रजतमिति यत्र ग्रहस्तत्र प्रवृत्तिर्न जायते । प्रकृते (९३ - १८) इति । रजत एव नेदं रजतमिति स्थले तथाविशेषो नाम भेदाग्रहविशेषो नास्ति । अन्यथेति (९३ - १८) । यदि भेदाग्रहमात्रं चेत् प्रवृत्तिं प्रति कारणं तदा इदं रजतमिति आरोपात् पूर्वं नैयायिकमते शुक्तिभेदाग्रहस्तिष्ठति । रज दाहोऽपि तिष्ठति । तदानीं त्वन्मते रजतस्यैवारोपो जायते शुक्तेरपि ज्ञानं कुतो न जायते । तथा चोभय भेदाग्रहात् ( ९३ - १८ ) । शुक्तिर्वा रजतं वेति उभयारोपरूपः संशय एव स्यान्न तु इदं रजतमिति एकस्यैवारोप इत्याह-न त्विदमिति ( ९३ - १९) । विपर्ययः ( ९३ - १९) आरोपः । आशयमविद्वान् अत्र शङ्कते - नन्विति (९३ - २० ) । तथा च एकत्र स्थाणौ स्थाणुर्वा पुरुषो वेति संशयानन्तरं यत्र पुरुष एवेत्यारोपस्तत्र पुरुष एवेति ग्रहे न भेदाग्रहस्य कारणत्वम् । कुतः ? इत्यत आह- स्थाणाविति (९३ - २० ) । तथा च पुरुषभेदाग्रहात् यथा स्थाणौ पुरुष एवेति व्यवहारो जायते तथा स्थाणुभेदाग्रादपि अयं स्थाणुरित्यपि व्यवहारः स्यात् । कुतः ? इत्यत आह-स्थाण्विति (९३-२०) । यथा पुरुषभेदाग्रहो वर्त्तते तथा स्थाणुभेदाग्रहोऽपि वर्त्तते । एवं सति किं स्यादित्यत आहएककोटिकेति (९३-२२) । तथा च पुरुष एवायमित्येक कोटिको व्यवहारो जायते, स न स्यात्, किन्तु स्थाणुपुरुषभेदाग्रहात् उभयभेदाग्रहरूपः संशय एव स्यादि २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270