________________
अन्यथाख्यातिवाद टिप्पनम् ।
२०१
एवं सति रजत एव नेदं रजतमिति यदा ग्रहः तदानीमयं रजतभेदग्रहस्तु न भवति । कुतः ? रजते रजतभेदग्रहेऽन्यथाख्यातिः स्यात् । तथा च अत्र रजतभेदाग्रहे विद्य मानेऽपि यदि रजते प्रवृत्तिर्न जायते प्रत्युत निवृत्तिरेव जायते । एवं सति रजतभेदाग्रहरूपे कारणे विद्यमानेऽपि यदि प्रवृत्तिलक्षणं कार्यं न जायते तदा तद्भेदाग्रहमात्रं कारणमेव न भवति किन्तु भेदाग्रहे विशेषः । स च विशेषः फलबलकल्प्यः । तथा च यत्र प्रवृत्तिलक्षणं फलं दृश्यते स एव भेदाग्रहः कारणम्, न तु भेदाग्रह
सामान्यम् ।
आरोप (९३ - १७) इति । त्वया नैयायिकेनापि कुत्रचित् शुक्तौ रजतारोपो जायते कुत्रचित् रजतेऽपि रजतज्ञानं न जायते यत्र आरोपाsनारोपयोः किं निमित्तं त्वया वक्तव्यम् । तस्माद्भेदाग्रहे कश्चन विशेषः आरोपरूपफलानुरोधात् कल्पनीयः । रजतमिति शुक्तौ आरोपः । तस्मिन्नारोपे यन्नियामकं तदेवास्माकं प्राभाकराणां प्रवृत्तौ नियामकम् । एवं सति रजत एव नेदं रजतमिति ग्रहस्तत्र इदं रजतमिति आरोपो न जायते नैयायिकमते । कुतः ? भेदाग्रहविशेषाभावात् । स मेदाग्रह विशेषः रजतार्थिप्रवृत्तिप्रयोजकोऽस्माकमपि नास्ति येन कृत्वा नेदं रजतमिति यत्र ग्रहस्तत्र प्रवृत्तिर्न जायते । प्रकृते (९३ - १८) इति । रजत एव नेदं रजतमिति स्थले तथाविशेषो नाम भेदाग्रहविशेषो नास्ति । अन्यथेति (९३ - १८) । यदि भेदाग्रहमात्रं चेत् प्रवृत्तिं प्रति कारणं तदा इदं रजतमिति आरोपात् पूर्वं नैयायिकमते शुक्तिभेदाग्रहस्तिष्ठति । रज
दाहोऽपि तिष्ठति । तदानीं त्वन्मते रजतस्यैवारोपो जायते शुक्तेरपि ज्ञानं कुतो न जायते । तथा चोभय भेदाग्रहात् ( ९३ - १८ ) । शुक्तिर्वा रजतं वेति उभयारोपरूपः संशय एव स्यान्न तु इदं रजतमिति एकस्यैवारोप इत्याह-न त्विदमिति ( ९३ - १९) । विपर्ययः ( ९३ - १९) आरोपः ।
आशयमविद्वान् अत्र शङ्कते - नन्विति (९३ - २० ) । तथा च एकत्र स्थाणौ स्थाणुर्वा पुरुषो वेति संशयानन्तरं यत्र पुरुष एवेत्यारोपस्तत्र पुरुष एवेति ग्रहे न भेदाग्रहस्य कारणत्वम् । कुतः ? इत्यत आह- स्थाणाविति (९३ - २० ) । तथा च पुरुषभेदाग्रहात् यथा स्थाणौ पुरुष एवेति व्यवहारो जायते तथा स्थाणुभेदाग्रादपि अयं स्थाणुरित्यपि व्यवहारः स्यात् । कुतः ? इत्यत आह-स्थाण्विति (९३-२०) । यथा पुरुषभेदाग्रहो वर्त्तते तथा स्थाणुभेदाग्रहोऽपि वर्त्तते । एवं सति किं स्यादित्यत आहएककोटिकेति (९३-२२) । तथा च पुरुष एवायमित्येक कोटिको व्यवहारो जायते, स न स्यात्, किन्तु स्थाणुपुरुषभेदाग्रहात् उभयभेदाग्रहरूपः संशय एव स्यादि
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org