________________
२००
न्यायसिद्धान्तदीपे स्वातन्त्र्येणोपस्थितस्येष्टस्य भेदाग्रहो नास्ति । कुतः ? तत्र नेदं रजतमिति ज्ञाने अभाव एव स्वातन्त्र्येणोपस्थितः, न तु इष्टं रजतादि उपस्थितम् । एवं यत्र शुक्तावेव नेयं शुक्तिस्तत्र यद्यपि अनिष्टशुक्तिभेदाग्रहो वर्तते । कुतः ? यदि शुक्तावनिष्टे शुक्तिरूपाऽनिष्टभेद ग्रहेऽन्यथाख्यातिः स्यात् तथापि तद्यदनिष्टं शुक्तिः सा न स्वातन्त्र्येणोपस्थिता किन्त्वभाव एव स्वातन्त्र्येणोपस्थितः, न तु शुक्तिरूपमनिष्टम् । नेयं शुक्तिरिति तत्र प्रवृत्तिरेवास्ति न तु निवृत्तिः । कुतः ? स्वतन्त्रोपस्थितानिष्टभेदाग्रहाभावात् । दूषयति-स्वातन्त्र्येति(९३-१३) । किं तत् स्वातन्त्र्यमिति तन्निवक्तुं न शक्यते ।
प्राभाकरः नैयायिकदूषणं खण्डयति-एतदपीति (९३-१४) । अभावेति(९३-१४)। यत्राभावविशेषणत्वेन इष्टस्योपस्थिति स्ति किन्तु रजतमित्याकारेण इष्टस्योपस्थितिः तस्येष्टस्य मेदाग्रहः प्रवर्तकस्तथाऽभावविशेषणत्वेन यस्यानिष्टस्योपस्थितिः नास्ति किन्तु इयं शुक्तिरेव इति प्राधान्येनानिष्टस्योपस्थितिः तादृशस्यानिष्टस्याभावाविशेषणत्वेनोपस्थितस्यानिष्टस्य भेदाग्रहो निवर्तकः । उपसंहरतितेनेति (९३-१५)। रजत एव नेदं रजतं तत्र न प्रवृत्तिः, स्वातन्त्र्येणोपस्थित यदिष्टं तस्य भेदाग्रहो नास्ति, कुतः ? सत्यरजतस्थले यत्र नेदं रजतमिति प्रहः तत्राभाव एव स्वातन्त्र्येणोपस्थितो न तु इष्टं रजतम् । उपलक्षणमेतत् यत्र शुक्तावपि नेयं शुक्तिः किन्तु रजतं तत्र यद्यपि अनिष्टभेदाग्रहो वर्त्तते, कुतः ? अनिष्टभेदग्रहेऽन्यथाख्यातिः स्यात् । तथापि स्वातन्त्र्येणोपस्थितं यदनिष्टं तस्य भेदाग्रहो नास्ति । तत्राभाव एव स्वातन्त्र्येणोपस्थितो नेयं शुक्तिरित्यादौ, न तु अनिष्टं शुक्त्यादि । एतदेवाह-तस्य चेति (९३-१६) । तस्य (९३-१६) स्वतन्त्रोपस्थितेष्टभेदाग्रहस्य । तथा स्वतन्त्रोपस्थितानिष्टाभेदाग्रहस्य । स एव नास्ति । प्रकृते (९३१६) इति । यत्र रजते एव नेदं रजसमिति ग्रहः अथ चानिष्टशुक्त्यादौ नेयं शुक्तिरिति ग्रहस्तत्र चेत्यर्थः । असम्भवादिति (९३-१६) । स्वतन्त्रोपस्थितेष्टभेदाग्रहस्य [च] स्वतन्त्रोपस्थितानिष्ट भेदामहस्यासम्भवादित्यर्थः ।
ननु तर्हि रजत एव यत्र रजतं न भवति । शुक्तावेव इयं शुतिर्न भवति तत्र रजते प्रवृत्त्यापत्तेः । कुतः ? रजतस्य स्वतन्त्रेणोपस्थितत्वादभावस्याप्राधान्येन । एवं यत्र न शुक्तिर्न तत्र निवृत्तिः स्यात् , कुतः ? तत्र शुक्तिरेव स्वातन्त्र्येणोपस्थिता अभावस्त्वप्राधान्येन । तथा च रजते स्वतन्त्रोपस्थितेष्टभेदाग्रहो वर्तते [इति] प्रवृत्तिः स्यात् । शुक्तो स्वतन्त्रोपस्थितानिष्टभेदाग्रहो वर्तते [इति] निवृत्तिः स्यात् । इत्यरुचेराहयद्वेति (९३-१७)। अयमाशयः । फलानुरोधात् कारणकल्पना । तथा च प्रवृत्तिः मगले-णि जायते असत्यस्थलेऽपि जायते । उभयत्र इष्टभेदाग्रहः तिष्ठत्येव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org