________________
अन्यथाण्यातिवादटिप्पनम् । अनुमितिरपि उच्छिघेत । कुतः ? इदमपि बहिर्विशेष्यकं मानसमेव ज्ञानं भविष्यतीत्यनुमितेरुच्छेदः स्यात् । स्वपक्षे न कोऽपि दोष इत्याह-अग्रहेति (९३-५)। शुक्ती रजतत्वाग्रहपक्षे । अस्येति (९३-५) । असन्निकृष्टभानादिरूपदोषस्याभावादित्यर्थः । तस्मात् शुक्को रजतत्वाग्रहपक्ष एव समीचीनः ।
अत्राशङ्कते नैयायिकः-नन्विति (९३-६)। संवादिविसंवादिप्रवृत्ति दाग्रहादेव भवतीतीदमनुपपन्नम् । यथेति (९३-६)। उपस्थितं यदिष्टं तेन सह यो भेदस्तस्याग्रहो नाम ज्ञानाभावस्तस्य प्रवर्तकत्वं वक्तव्यम् । तथेति (९३-७)। तथा तेनैव प्रकारेण उपस्थितं यदनिष्टं तेन सह यो भेदस्तस्याग्रहो नाम ज्ञानाभावस्तस्य निवर्तकत्वं वक्तव्यम् । तथा चोपस्थितेष्टानिष्टभेदाग्रहयोरेव प्रवृत्तिनिवृत्तिजनकत्वं वक्तव्यं, न तु भेदाग्रहमात्रस्य । इष्टभेदाग्रहस्येति (९३-७) । इष्टभेदाग्रहमात्रस्येत्यर्थः । विपक्षे बाधकमाह-तथात्वे (९३-८) इति । इष्टभेदाग्रहमात्रस्य प्रवर्तकत्वे रजत एव नेदं रजतमिति ज्ञानं जातं तत्र निवृत्तिरेव जायते न तु प्रवृत्तिः । तत्र प्रवृत्तिः स्यात् । तत्र सत्यरजतस्थले नेदं रजतमिति ज्ञानं जायते तत्र इष्टभेदाग्रहो वा भेदाग्रहो वा । आधे आह-तत्रेति (९३-९) । तथा च इष्टभेदाग्रहस्य सत्त्वात् नेदं रजतमित्यादी प्रवृत्तिः स्यात् । अन्त्ये त्वाह-भावे वेति(९३-९) । यत्र रजत एव नेदं रजतमिति भेदहस्तदाऽन्यथाख्यातिः स्यात् ।
ततः किमित्यत आह-तथा चेति (९३-९) । शुक्तावेव इदं रजतं न शुक्तिरिति ज्ञानात् युगपत् प्रवृत्तिनिवृत्त्यापत्तिः । कुतः ? तत्र शुक्तो उपस्थितस्येष्टस्य भेदाग्रहो वर्तते इतिकृत्वा प्रवृत्तिः स्यात् , उपस्थितस्यानिष्टस्य भेदाग्रहोऽपि वर्तते इतिकृत्वा निवृत्तिः स्यात् यदि तत्र शुक्तौ नेदं रजतमिति ज्ञानम् अनिष्टं भेदग्रहस्तदाऽन्यथाख्यात्यापत्तिः यतोऽनिष्टेऽनिष्ट भेदाभावात् । अनिष्टभेदाभाववति अनिष्टभेदस्य ग्रहोऽन्यथाख्यातिः । शुक्तौ अनिष्टभेदग्रहमाशङ्कते-न चेति (९३-११) । शुक्तो नेयं शुक्तिरित्ययमनिष्टभेदग्रह एव न तु अनिष्टभेदाग्रहः । दूषणमाहअन्यथेति (९३-११) । तथा च शुक्तावनिष्टे एव यदि अनिष्टभेदग्रहस्तदाऽन्यथाख्यातिः स्यात् ।
अत्राशङ्कते-न चेति (९३-१२) । स्वातन्त्र्येणोपस्थितं यदिष्टं तस्य भेदाप्रहः इष्टे प्रवर्तकस्तथा स्वातन्त्र्येणोपस्थितं यदनिष्टं तस्य भेदाग्रहो निवर्तकः । तथा च इष्टे एव यत्र नेदं रजतमिति ज्ञानं तत्र इष्टभेदाग्रहो यद्यपि वर्तते तथापि
१. प्रवृत्तिस्तु म जायते । २. दोषात् । ३. इष्टभेदग्रहेऽन्यथाख्यातिः । 'इयं शुक्तिरेव न रजतम्' अयं भेदग्रहः, इदं भेदग्रहरूपं ज्ञानं नास्ति स भेदाग्रहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org