________________
१९८
न्यायसिद्धान्तदीपे
यत्रान्यत्र गतस्तस्य यः संशयः स चाक्षुषो न भवत्येव किन्तु मानस एव । यदि चाक्षुषः स्यात् तदा विशेष्येन्द्रियसन्निकर्षस्यापेक्षा स्यात्, तच्च नास्त्येव । ज्ञानेति (९२-२३) । अन्यत्र गत्वा यः संशयः स ज्ञानविशेष्यक एव न तु वस्तुविशेष्यक एव । समाधत्ते ज्ञानेति ( ९२ - २३) । तथा च ज्ञानधर्मिकस्तदा संशयः स्याद्यदि ज्ञानं भासेत ज्ञानभानाभावेऽपि स्थाणुर्वी पुरुषो वेति संशयस्य जायमानत्वात् । यथा संशये विशेष्येन्द्रियसन्निकर्षो न कारणं तथा विपर्ययेऽपि विशेष्येन्द्रियसन्निकर्षो न कारणमित्यर्थः ।
-
अत्राशङ्कते न चेति (९३ - १) । यत्रोर्ध्ववस्तुपरित्यागानन्तरमन्यत्र गत्वा यत्र संशयो जायते तत्र दोषस्यैव सन्निकर्षत्वम् । दोषो दूरत्वादिदोषः । एवं शुक्तिस्थले रजत साक्षात्कारो जायते तत्र रजतेन सह चाकचिक्यं दोष एव सन्निकर्षः । तथा च रजतसन्निकर्षोऽपि वर्त्तते रजतभ्रमो भविष्यतीत्याशङ्कार्थः । दूषयति- षोढेति (९३ - १) | संयोगादिका षोढा प्रत्यासत्तिस्तन्मध्ये तु चाकचिक्यादिदोषो नास्तीति दोषस्य सन्निकर्षवहिर्भावात् । दोषस्य सन्निकर्ष वहिर्भावेऽपि रजतज्ञानमेवात्र सन्निकर्षो भविष्यतीत्याशङ्कते - न चे ते ( ९३ - २) । तत्रेति (९३ - २) | शुक्तिरजतस्थळे | ज्ञानान्तरोपनीते (९३ - २) इति । स्मृत्युपनीते स्मृत्या उपस्थिते रजते । मन एवेति (९३ - २) । मानस एव भ्रमो भविष्यतीत्याशङ्कार्थः ।
दूषयति-बहिरिति (९३ - ३ ) | मानसो भ्रमो बहिर्विशेष्यको न भवति, इदं रजतमित्ययं भ्रमस्तु बहिर्विशेष्यकः कथं मानसः स्यात् । ननु उपेनयवशाद् बहिर्विशेष्यकोऽपि मानसो भ्रमो भविष्यतीत्यत आह - ज्ञानान्तरेति ( ९३ - ३ ) । ज्ञानान्तरोपनयवशात् बहिर्विशेषणको मानसो भ्रमो भवति । न तु बहिर्विशेष्यकः । तत्र बहिर्विशेष्यके बोधे मनसोऽसामर्थ्यात् । तद्विशेषणक ( ९३ - ३) एवेति । बहिर्विशेषणक इत्यर्थः ।
अत्र युक्तिमाह - परमाणुमिति । यदि बहिर्विशेष्यको मानसो बोधः स्यात् तर्हि ज्ञातो मया परमाणुरित्येव स्यात् न तु परमाणुमहं जानामीत्यात्म विशेष्यको बोधः । तथाऽदर्शनादिति (९३ - ४ ) बहिर्विशेष्यकमानस बोधादर्शनादित्यर्थः । ननु परमाणुमहं जानामीत्ययं बोधो नास्त्येव किन्तु मया ज्ञातः परमाणुरित्येव बोधः । एवं सति बहिर्विशेष्य कोऽपि मानसो बोधो भविष्यतीत्यत आह- अन्यथेति ( ९३ - ४ ) तथा च यदि बहिर्विशेष्यकोऽपि मानसो बोधः स्यात् तर्हि पर्वतो वह्निमानित्यादि
१. स्मरण० 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org