________________
अन्यथाख्यातिवादटिप्पनम् ।
१९७ ननु रजताभेदस्य रजतत्वसंसर्गस्य कारणभानसामग्री नास्तीत्यत आहशुक्ताविति(९२-१५) । ननु रजताभेदस्य रजतत्वसंसर्गस्य वा भानसामग्रयभानं चेन्नास्ति तदा शुक्ती रूप्यतया ज्ञातेति रजताभेदविषयकरजतत्वसंसर्गविषयकानुन्यवसायस्य का गतिरित्यत आह-शुक्तीति (९२-१६)। शुक्ती रूप्यतया ज्ञातेत्ययमनुव्यवसायो न भवति किन्तु व्यवहार एव । सोऽयं व्यवहारः व्यवहारकारणीभूतो यो रजतभेदाग्रहः रजतत्वासंसर्गाप्रहश्च तद्विषयक एव । न तु रजताभेदरजतत्वसंसर्गविषयक एव । प्राचीनेति(९२-१६) । प्राचीनो नाम व्यवहारकारणीभूतः । भेदाग्रहेति (९२-१६) भेदग्रहाभावः । कारणबाधमेव विवृणोतिरजतेति (९२-१७) । सन्निकर्षः (९२-१७) संयोगः । तव्यतिरेकेणेति (९२-१७) रजतसंयोगव्यतिरेकेणेत्यर्थः । तदुत्पत्तीति(९२-१७)। रजता भेदग्रहस्य रजतत्वसंसर्गग्रस्य वा उत्पत्तिसम्भावना नाम उत्पत्तिसंशयः कथं शुक्तौ ।
अत्राशङ्कते-न चेति(९२-१८) । न हि रजतसाक्षात्कारे रजतसंयोगः कारणं, किन्तु सर्वत्र साक्षात्कारमात्रे विशेष्येन्द्रियसन्निकर्षः कारणम् । तथा च रज तसाक्षात्कारेऽपि विशेष्यसन्निकर्ष एव कारणं न तु रजतसंयोगः । विसंवादिप्रवृत्तिस्थले विशेष्येन्द्रियसन्निकर्षस्य विद्यमानत्वात् रजतसाक्षात्कारो भविष्यत्येव । एतदेवाह-विशेष(९२-१८)इति । यद्यपि साक्षात्कारसामान्ये विशेष्येन्द्रियसन्निकर्षः कारणं तथापि रजतरूपविशेष्यसाक्षात्कारे रजतसंयोगः कारणं भविष्यति तथापि सामान्यसामग्रीत एव रजतसाक्षात्कारोत्पत्तौ रजतसंयोगत्वेन कारणत्वे प्रमाणाभावात् । तथा च रजतसंयोगाभावेऽपि विशेष्येन्द्रियसन्निकर्षमात्रात् शुक्तो रजतसाक्षःस्कारो भ्रमरूपो भविष्यतीत्यर्थः । तथा च साक्षात्कारे विशेष्येन्द्रिय सन्निकर्षः कारणं न तु रजतसंयोगो विशेष्येन्द्रियरूपः कारणम् ।
दूषयति-क्वचिदिति(९२-२०)। तथा च साक्षात्कारमात्रे विशेष्येन्द्रियसन्निकर्षः कारणम् एतदपि नास्ति । कुतः विशेष्येन्द्रियसन्निकर्षाभावेऽपि साक्षात्काररूपभ्रमस्य जायमानत्वात् इति त्वया नैयायिकेनाङ्गीकारात् । एतदेव विवृणोति-साक्षादिति (९२-२१) । यत्र प्रथमतः ऊबै वस्तु दूराद् दृश्यते तत्र सामान्यत उच्चवस्तुदर्शनानन्तरं ततोऽन्यत्र गत्वा तदुच्चवस्तु स्मृत्वा तस्मिन् वस्तुनि स्थाणुर्वा पुरुषो वेति संशयो जायते तत्र विशेष्यं यदूर्व वस्तु तत्सन्निकर्षाभावेऽपि तस्य संशयस्य जायमानत्वात् । अत्राशङ्कते-न चेति (९२-२३) । उच्चवस्तु परित्यक्त्वा [त्यज्य]
१. नेदं रजतम् इति ज्ञानं यदा नास्ति तदा रजतभेदाग्रहः रजताभेदो नाम रजतम् ।
2. Is it another example of Jaina Sanskrit ? See 3qrafica in the begining of the टिप्पनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org