________________
१९६
म्यायसिद्धान्तदीपे
कथं कल्प्यत इत्यत आह- किं त्विति (९२ - ९) । तज्ज्ञानद्वयमभेदग्रहसंसर्गग्रहलक्षणं मनसा प्रत्यक्षसिद्धमेव ।
२
ननु तर्हि तेयोर्ज्ञानयोरभेदव्यवहार संसर्गव्यवहारयोः कारणत्वं तु नागतमेवे - स्यत आह-तस्य चेति (९२ - १० ) । अभेदग्रहस्य संसर्गग्रहस्य चान्वयव्यतिरेकाभ्यां कारणत्वम् । अयमाशयः - ज्ञानं तु द्विविधं मानसप्रत्यक्षसिद्धं वर्त्तत एव । द्वयोरपि व्यवहारयोरन्वयव्यतिरेकौ द्वयोरपि ज्ञानयोर्वर्त्तत एव । एवं तयोर्द्वयोर्व्यवहारयोः प्रतिभेदाग्रहासंसर्गाग्रहयोरपि अन्वयव्यतिरेकौ वर्त्तेते एव । एवं सति द्वयोव्र्व्यवहारयोः प्रति तयोर्ज्ञानयोः कारणत्वं वक्तव्यं किं वा भेदाग्रहा संसर्गाग्रहयाव कारणत्वं वक्तव्यं तत्र लाघवात् द्वयोर्विशिष्टज्ञानयोरभेद ग्रह संसर्गग्रहलक्षणयोः कारred वक्तव्यं, न तु भेदाग्रहा संसर्गाग्रहयोः कारणत्वं कुतः ? तयोर्भेदाग्रहा संसर्गाइयोः ज्ञानापेक्षया गुरुत्वेन कारणत्वाभावादिति द्वयोर्भ्रमरूपयोर्ज्ञानयोः अभेदग्रहसंसर्गग्रहलक्षणयोर्व्यवहारकारणत्वम् । भेदाप्रहा संसर्गाग्रहौ तु द्वाभ्यां ज्ञानाभ्यामन्यथासिद्वाविति । तच्च ज्ञानद्वयं संवादिविसंवादिव्यवहार साधारणमित्याहयथेति (९२ - ११) यथा सत्यरजतस्थळे ज्ञानद्वयं भवति तथा यत्र विपरीतरजतबाधो दं रजतमित्युत्तरकालं यत्र ज्ञानं तत्र विसंवादिप्रवृत्तिस्थलेऽपि ज्ञानद्वयं जायत एव ।
"
अत्र युक्तिमाह- कथमिति (९२ - १२) | यदि विसंवादिप्रवृत्तिस्थले पुरोवर्त्तिनि इदं रजतमिति रजताभेदग्रहरूपं रजतत्वसंसर्गग्रहरूपं वा ज्ञानं चेन्न जायते तर्हि मयाऽत्रेयं शुक्तिः रजततया ज्ञाता इति रजताभेदग्रहः रजतत्वसंसर्गग्रहो वा, तस्योल्लेखः कथं स्यादिति । ननु अयम् उल्लेखः प्रमाणमेव न भवतीत्यत आहतदिदमिति (९२ - १२) | यदि अनुव्यैवसायेन वस्तुसिद्धिर्न भवति तदा घटोऽयमिति ज्ञानेऽपि घटत्वसंसर्गप्रहो न सिध्येत् [ इति] मतं दूषयति- एतदपीति (९२ - १५) | विषयबाधे सति प्रतीतेरन्यथात्वकल्पनम् । यथा शशशृङ्गं नास्तीति प्रतीतेः शशशृङ्गाभावो विषयो न, अलीकप्रतियोगिकस्याभावस्यानङ्गीकारात्, किन्तु प्रतीतेरन्यथात्वकल्पनं शृङ्गे राशीयत्वाभावमात्रं विषयः, तद्वत् विसंवादिप्रवृत्तिस्थले रजताभेदस्य रजतत्वसंसर्गस्य वा शुक्तौ ग्राहकसामग्रयभावे रजताभेदस्य रजतत्वसंसर्गस्य भानाभावेन रजताभेदर जतत्वसंसर्गविषयानुव्यवसायस्य विषयान्तरकल्पनमेवोचितमित्यर्थः ।
१. अभेदग्रहसंसर्गग्रहयोः । २. अभेदग्रहसंसर्गग्रहरूपं । ३. शुक्ती रजततया ज्ञातेस्ययम
नुष्यवसायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org