________________
अन्यथाख्यातिवादटिप्पनम् ।
१९५ एवं सति युक्तिमाह-अस्य चेति (९२-७) । भेदाग्रहासंसर्गाग्रहरूपद्वयस्येत्यर्थः । नैयायिकमतेऽपि नेदं रजतमिति भेदग्रहे इदं रजतमिति रजताभेदग्रहरूपं विशिष्टज्ञानं न जायते, रजतामेदग्रहरूपरजतत्वसंसर्गग्रहरूपे विशिष्टज्ञानाभावे इदं रजतमिति रजताभेदव्यवहारोऽपि न जायते । एवमत्र रजतत्वं नास्तीति रजतत्वाभावज्ञानरूपे रजतत्वासंसर्गग्रहे इदं रजतमिति रजतत्वसंसर्गग्रहात्मकं भ्रमरूपं विशिष्टज्ञानं न जायते । रजतत्वसंसर्गग्रहभ्रमरूपविशिष्टज्ञानाभावे इदं रजतमिति रजतत्वसंसर्गव्यवहारश्चेदङ्गीक्रियते तर्हि संसर्गव्यवहारोऽपि न जायते । तथा च द्वयोरप्यभेदारोपसंसर्गारोपयोः भेदाग्रहः १ असंसर्गाग्रहश्च २ कारणम् । एवं सति द्वयोरारोपयोर्यत् कारणद्वयं तस्मात् साक्षात् अभेदव्यवहार एव संसर्गव्यबहार एव भवतु, मध्ये विशिष्टज्ञानात्मके अभेदारोपेण संसर्गारोपेण वा किम्, आरोपद्वयनियामकद्वयादेव द्विविधव्यवहारोत्पत्तौ अन्तर्गडु भारोपद्वयकल्पने गौरवादिति । ..
ननु सत्यरजतस्थले रजतप्रवृत्ति प्रति रजतव्यवहारं प्रति पुरोवर्तिविशेष्यकरजतत्वप्रकारकं नाम रजतत्ववैशिष्टयावगाहिज्ञानस्य कारणत्वे असत्यप्रवृत्तिव्यवहारस्थलेऽपि पुरोवर्त्तिविशेष्यकरजतत्ववैशिष्टयावगाहिज्ञानं शुक्तिविशेष्यकरजतत्वप्रकारकमन्यथाख्यातिरूपं कारणं भविष्यति तथा चान्यथाख्यातिसिद्धिरित्यत आह-सत्यरजतस्थलेऽपीति (९२-७) । तथा च सति सत्यस्थळेऽपि पुरोवर्तिनि रजतत्ववैशिष्टयज्ञानात्मको रजताभेदग्रहो न कारणं प्रवृत्ति प्रति आवश्यकात् रजत मेदाग्रहात् रजतत्वासंसर्गाग्रहात् अभेदव्यवहारः १ रजतत्वसंसर्गव्यवहारो २ वा भविष्यति, न तु रजत्ववैशिष्टयग्रहात्मकं रजताभेदग्रहरूपं रजतत्वसंसर्गग्रहरूपं वा ज्ञानं कारणम् । एतदेवाह-तदुपपत्ताविति (९२-८)। अभेदव्यवहारोपपत्तौ संसर्गव्यवहारोपपत्तावित्यर्थः। वैशिष्टयस्येति (९२-८)। पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानस्येत्यर्थः। प्रकारकत्वस्य वैशिष्टयगर्मितत्वात् । तदभिप्रायेण वैशिष्टयपदम् । अन्यथा पुरोवर्तिविशेष्यकरजतत्वप्रकारकत्वस्याप्रयोजकत्वादित्येव वक्तव्यम् । .
___ अत्राशङ्कते-नन्विति (९२-९) । न हि उभयविधव्यवहारकार्यानुरोधेन उभयविधम् आरोपरूपं विशिष्टज्ञानमभेदग्रहरूपं संसर्गग्रहरूपं वा कारणमङ्गोक्रियते । येन भेदाग्रहात् असंसर्गाग्रहाद्वा उभयविधव्यवहारद्वयकार्योपपत्तौ तादृशग्रहयोरन्यथासिद्धतया तत्कैल्पने अभेदग्रहसंसर्गद्वयकल्पने प्रमाणाभावादिति स्यात् । तर्हि १. रजतत्वारोपो नाम रजतत्वसंसर्गारोपः । २. रजतारोपो नाम अभेदारोपः । ३. रजताभेदग्रहस्य रजतत्वसंसर्गग्रहस्य । ४. अभेदग्रह-रजतत्वसंसर्गग्रहरूपज्ञानयोः । ५. रजताभेदग्रहरूपे रजतत्वसंसर्गग्रहरूपे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org