________________
१९४
न्यायसिद्धान्तदीपे शुक्तिविशेष्यकरजतत्वप्रकारकज्ञानेनैव साध्यः, यच्छुक्तिविशेष्यकं रजतत्वप्रकारक ज्ञाचं सैवान्यथाख्यातिः ।
. दूषयति प्राभाकरः-तयोरिति (९२-३) । व्याहारव्यवहारयोः । रजतत्वप्रकार कज्ञानसाध्यत्वमेव लाघवात् , न तु पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानसाध्यत्वम् । पुरोवर्तिविशेष्यत्वं नाम व्यवहर्त्तव्यविशेषकत्वम् अथवा प्रवृत्तिविषयविशेष्यकत्वम् । ननु रजतत्वप्रकारकज्ञानं चेत् कारणमागतं तर्हि तदेवान्यथाख्यातिरूपम् आयास्यति इत्यत आह-तच्चेति (९२-३)। न हि रजतत्वप्रकारकज्ञानमात्रमन्यथाख्यातिः, किन्तु पुरोवर्त्तिविशेष्यकं यद् रजतत्वप्रकारकज्ञानं तदन्यथाख्यातिरूपं, तच्च नास्त्येवेत्यर्थः । अत एवाह-नन्विति (९२-४)। व्यवहर्त्तव्येति (९२-४) पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानजन्यतेत्यर्थः । युक्तिमाह-गौरवादिति (९२-५)। रजतत्वप्रकारकज्ञानत्वापेक्षया पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानत्वस्य गौरवादित्यर्थः ।
शङ्कते-न चेति (९२-५)। विशिष्टज्ञानं द्विविधम् एकं [यद्] रजतत्वसमवायसम्बन्धेन पुरोवर्तिनि ज्ञायते तद्रजतत्वसंसर्गग्रहात्मकं रजतत्वविशिष्टज्ञानं, पुरोवर्त्ति विशेष्यं रजतत्वं विशेषणं सम वायसम्बन्धश्च । अपरं च [यद्] रजतत्वाश्रयाभेदसम्बन्धेन रजतत्वमारोप्यते । तत्र रजतत्वाश्रयाभेदः संसर्गः द्वयोर्विविष्टज्ञानयोरेकः संसर्गग्रहः एकोऽभेदग्रहः, उभयथाऽपि विशिष्टज्ञानम् इति अस्मन्मते नैयायिकमते । तच्चेन्नाङ्गीक्रियते, किन्तु उभयथाऽपि रजताभेदः तर्हि यत्र नेदं रजतमिति भेदग्रहः तत्रापि इदं रजतमिति रजताभेदव्यवहारः स्यात् । एवमत्र पुरोवर्त्तिनि रजतत्वं नास्ति इति रजतत्वात्यन्ताभावरूपस्य रजतत्वासंसर्गस्य ग्रहे रजतत्वसंसर्गव्यवहारापत्तिः ।
कचिदिति (९२-५)। यत्र प्रथमतः इदं रजतमिति ज्ञानं तदनन्तरं नेदं रजतमिति ज्ञानं तत्र सर्वत्र रजतमिति शब्दाभिलापः स्यात् । एवं सति रजतमिति रजतत्वसंसर्गाभिलापः स्यात् । कुतः ? रजतत्वप्रकारकं ज्ञानं स्मरणरूपं तिष्ठत्येव । समाधत्ते-अभेदेति (९२-६)। रजताभेदव्यवहारे हि रजतभेदज्ञानाभावरूपस्य रजतभेदाग्रहस्य कारणत्वं, रजतत्वसंसर्गव्यवहारे हि रजतत्वाभावज्ञानाभावरूपस्य रजतत्वासंसर्गाग्रहस्य कारणत्वं वर्तते । अत एव नेदं रजतमिति रजतभेदज्ञानं वर्त्तते, तत्र रजतभेदज्ञानाभावरूपो रजतभेदाग्रहो नास्तीतिकृत्वा रजतमिति अभेदव्यवहारो न, एवं यत्र रजतत्वं नास्ति इति रजतत्व(त्वा)भावज्ञानं वर्तते तत्र रजतत्वाभावज्ञानाभावरूपः रजतत्वासंसर्गाग्रहः, स च नास्तीति कृत्वा रजतमिति न रजतत्वसंसर्गव्यवहारः कारणाभावात ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org