________________
अन्यथाख्यातिवादटिप्पनम् ।
१९३ नास्तीत्यर्थः । रजतार्थिप्रवृत्तीति(९१-१२) या विप्रतिपत्तिरुक्का तया नैयायिकस्यान्यथाख्यातिसाधनं न, न वा प्राभाकरस्याऽन्यथाख्यातिनिषेधोऽपोत्याह-न वेति (९१ -१३) । वैशिष्टयस्येति (९१-१८) प्रकारत्वस्येत्यर्थः । तथा च प्रवृत्तिकारणत्वस्य प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वावच्छिन्न त्वनिषेधेन प्राभाकरस्यान्यथाख्यातिरपि निषिद्धा न भवतीत्यर्थः । ।
स्वयं समाधत्ते-रजतत्वावच्छिन्नेति (९१-२०)। रजतत्वप्रकारिका या कार्यज्ञानविषयता सा अरजतनिष्ठात्यन्ताभावाप्रतियोगिनीति कोऽर्थः, अरजतवृत्तिनी न वा, तस्यां विप्रतिपत्तौ अन्यथाख्यातिः कथम् मागता । अरजतवृत्तिरजतत्वप्रकारकविषयताप्रतियोगिज्ञानमेवान्यथाख्यातिः । पूर्वोक्तविप्रतिपत्तौ नत्रद्वयगर्भितत्वेन गौरवादाह-रजतत्वेति(९१-२१)। अरजतवृत्तिरजतत्वप्रकारकज्ञानविषयताकत्वमेवान्यथाख्यातिः । शङ्कते-न चेति (९१-२२) असाधारण्यमिति(९१-२२)। शुक्तिरजतस्थले यद्यप्यन्यथाख्यातिरागता तथापि सर्वत्र घटपटादिस्थले नागतैव । समाधत्ते-एतावतेति (९१-२२) । एकत्र स्थलेऽन्यथाख्यातिस्तु सिद्धैव । तथा चैकत्र सिद्धाऽन्यत्रापि सेत्स्यति ।
पूर्वोक्तां विप्रतिपत्तिं समर्थयति-यद्वेति (९१-२३) । ज्ञानत्वं यथार्थत्वव्याप्पमिति विधिकोटिः प्राभाकराणां निषेधकोटिनैयायिकानाम् । साधारण्येन विप्रतिपत्तिमाह-यद्वेति (९१-२३) । स्वेति (९१-२३) । स्वशब्देन विषयता तस्या यः प्रकारस्तस्य यो व्याप्यवृत्त्यत्यन्ताभावस्तेन सह समानाधिकरणम् । अत्र विधिकोटिः नैयायिकाना, निषेधको टिः प्राभाकराणाम् । अत्र रजतत्वप्रकारकज्ञानविषयत्वं चेद्रजतत्वं प्रकारस्य व्याप्यवृत्तिर्योऽत्यन्ताभावः शुक्तिनिष्ठस्तेन सामानाधिकरण्यं चेज्जातं तदा शुक्ति विशेष्यकरजतत्वप्रकारज्ञानविषयत्वं लब्धं सैवान्यथाख्यातिः ।
रजततयेति (९२-२) । तत्रेति(९२-२) यत्र रजतार्थिनः शुक्तो प्रवृत्तिर्जायते तत्रेत्यर्थः । तथा च व्याहारः शब्दाभिलापः व्यवहारेः प्रवृत्तिः तयोर्याऽन्यथाऽनुपपत्तिः कार्य कारणेन विनाऽनुपपन्नम् । शब्दाभिलापः प्रवृत्तिश्च द्वे कार्ये, कार्य कारणेन विनाऽनुपपन्नं, कारणं किं ! यत्प्रकारको यद्विशेष्यको व्यवहारः तद्विशेष्यकतत्प्रकारकज्ञानसाध्यः व्यवहारश्चेच्छुक्तिविशेष्यकः रजतत्वप्रकारकः तदा
१. रजतत्वप्रकारकज्ञानविषयता ईश्वररजतत्वप्रकारकज्ञानविषयता अरजतवृत्तिनी भवत्येव, ईश्वररजतत्वप्रकारकज्ञानस्य सर्वविषयत्वात् । न च तदन्यद्वा ख्यातिरूपं तत् इतिकृत्वा कार्यपदम् । ईश्वरज्ञानं तत्कार्य न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org