________________
१९२
न्यायसिद्धान्तदीपे धूमरूपव्याप्यवति पर्वते धूमव्यापकवह्निसत्त्वनियमात् । एवं प्रवृत्तिकारणत्वे तादृशज्ञानत्वव्याप्यत्वं चेदागतं तदा व्याप्यसत्त्वे व्यापकावश्यम्भावनियमात् । अत्र प्रवृत्तिकारणत्वं व्याप्यं प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं व्यापकम् । यत्र प्रवृत्तिकारणत्वं तत्र तत्र तादृशज्ञानत्वम् । एवं सति विसंवा देप्रवृत्तिहेतुभूते ज्ञाने तादृशप्रवृत्तिकारणत्वं वर्तते तत्र चेद् व्याप्यं तिष्ठति तदा तस्मिन् ज्ञाने तादृशस्य कारणत्वस्य व्यापकं तादृशज्ञानत्वं तदप्यागतं व्यापकम् । तथा च प्रवृत्तिकारणीभूते पुरोवर्तिज्ञाने शुक्तिविशेष्यकर जतत्वप्रकारावच्छिन्ना या विषयता तत्प्रतियोगित्वं ज्ञानत्व चेदागतं तदा शुक्तिविशेष्यकरजतत्वप्रकारकं ज्ञानमन्यथाख्यातिरूपमागतमेव ।
' खण्डयति-इयं चेति (९१-१४)। इयं पूर्वोक्ता विप्रतिपत्तिः । अन्यथाख्याती न किन्तु तद्व्याप्ये इति कोऽर्थः ? अन्यथाख्यातिव्याप्ये, यथा धूमवत्त्वं वयवछिन्नं नवेयं वह्निव्याप्यत्वे विप्रतिपत्तिः, न तु वह्नौ विप्रतिपत्तिः । भवतु न्याप्य एवं विप्रतिपत्तिः ततः किमित्यत आह-स्वविषयेति (९१-१२) यद्विषयिणी विप्रतिपत्तिः तद्विषयकः संशयः, तद्विषयक एव विचारः कर्तव्यः । भवतु विप्रतिपत्तिसंशयविचाराणा समानविषयत्वं ततोऽपि किमित्यत आह-अनयेति (९१-१५) चोप्यर्थे (९१-१५) । तथा च अनया पूर्वोक्तया विप्रतिपत्त्या समानविषयकः संशयः समानविषयको विचारः कार्यः । एवं सति किमनिष्ट इत्यत आह-तद्विषय
चेति । तथा च विप्रतिपत्तेरन्यथाख्यातिव्याप्यत्वं चेद् विषयः तदा व्याप्यविषयक एव विचारः । स च प्रकृते चानुपयुक्तः यतो ह्यन्यथाख्यातिरुद्देश्या, न तु अन्यथाख्यातिव्याप्यं यतो रजतार्थीति या विप्रतिपत्तिः सा व्याप्यविषयिणी । तदिति (९१-१७) अन्यथाख्यातिः तस्याः अन्यथाख्याते: व्याप्य रूपो विषयो भवति, न तु अन्यथाख्यातिरूपः ।
अत्र शङ्कते-न चेति (९१-१७)। तथा च व्याप्ये या विप्रतिपत्तिः सा च व्यापकविचारार्थेमेवेति नास्य विचारस्यानुपयुकत्वमित्यर्थः । अन्यथाख्यातिरूपव्यापकसिद्धयर्थ व्याप्यताधनम् । तादृशकारणत्वे तादृशज्ञानत्वावच्छिन्नलक्षणं यद व्याप्यत्वसाधनमित्यर्थः । कथायामिति (९१-१८)। वादिविवादकथायाम् । दूषयति-अप्राप्तेति (९१-१८)। अनाकासताभिधानलक्षणमप्राप्तकालत्वमित्यर्थः । अन्यथाख्यातिरूपे व्यापके आकाङ्क्षा, न तु अन्यथाख्यातिव्याप्ये ज्ञानत्वावऽच्छिन्नलक्षणे शुक्तिविशेष्यकरजतत्वप्रकारकज्ञाने आकाङ्क्षा, न तु प्रवृत्तिकारणत्वस्य पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानत्वाच्छिन्नत्वलक्षणं यदन्यथाख्यातिव्याप्यं तत्राकाङ्क्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org