________________
अन्यथाख्यातिवादटिप्पनम् ।
१९१ शुक्त्यादिव्यक्तिविशेषाभिधाने सर्वत्र साधारण्ये नान्यथाख्यातिन सिद्धा किन्तु क्वचिदेव ।
__दूषणान्तरमाह-किच्चेति(९१-१०)। तथा च रजतत्ववद्विशेष्यकं रजतत्वप्रकारकं यत् सत्यं ज्ञानं तद्वा पक्षीकृतमिति प्रथमः पक्ष । शुक्तीति(९१-११) । रजतस्वाभाववति या शुक्तिः तद्विशेष्यकं यद्रजतत्वप्रकारकं ज्ञानं तद्वा पक्षीकृतमिति द्वितीयः पक्षः । दूषयति-तत्रेति(९१.११)। तथा च सत्यज्ञानस्यायथार्थत्वे साध्ये बाध इत्यर्थः । व्यधिकरणे (९१.११) इति अयथार्थत्वे इत्यर्थः । परमिति । (९१-१२)। तथा च शुक्तिविशेष्यकं रजतत्वप्रकारकं यदन्यथाख्यातिरूपं ज्ञानं तदद्यापि सिद्धमेव नास्ति । पक्ष एव सिद्धो नास्ति किं साध्यते । बाधादिति(९१-११)। इदंज्ञानस्य वा रजतज्ञानस्य वा पक्षत्वे उभयत्र बाधः । उभयोः इदं-रजतज्ञानयोः समानाधिकरणप्रकारकत्वादेव न व्यधिकरणप्रकारकत्वमिति ।
तथा हीति(९१-१२)। रजतार्थीति(९१-१२) रजतार्थिनो या प्रवृत्तिः तं प्रति कारणत्वं पक्षः। प्रवृत्तीति(९१-१३)। रजतार्थिप्रवृत्तिसमानविशेष्यिका एवम्भूता या रजतत्वप्रकारावच्छिन्ना या विषयता तत्प्रतियोगि यदज्ञानं तत्त्वेन अवच्छिन्नम् इति साध्यम् । अत्र च रजतार्थिप्रवृत्तिकारणत्वम् उभयत्र तिष्ठति । संवादिप्रवृत्तिहेतुभूतेऽपि ज्ञाने तिष्ठति विसंवादिप्रवृत्तिहेतुभूतेऽपि ज्ञाने तिष्ठति । तथा च उभयत्र विद्यमानं यत् कारणत्वं तत् तादृशज्ञानत्वावच्छिन्नं चेज्जातं तादृशज्ञानत्वव्याप्यमेव जातम् । एवं सति विसंवादिप्रवृत्तिस्थले यत् ज्ञाननिष्ठं प्रवृत्तिकारणत्वं तत् प्रवृत्तिहेतुभूते ज्ञाने तिष्ठति, तत्र कारणत्वस्य यद् व्यापकं प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं चेत् तत्रागतं तदा अन्यथाख्यातिरागतैव । यतः विसंवादिप्रवृत्तिकारणीभूते पुरोवर्तिज्ञाने शुक्तिविशेष्यकर जतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं चेदागतं तदा शुक्तिविशेष्यकरजतत्वप्रकारकं ज्ञानं तदेवान्यथाख्यातिरूपमागतं व्याप्यसत्त्वे व्यापकावश्यम्भावात् । यथा धूमो वयवच्छिन्नैः । धूमो वह्नयभावदवृत्तिरिति धूमे यदा वह्नयभाववदवृत्तित्वमागतं तदा धूमे वह्निव्याप्यत्वमेवागतम् । धूमे यदा वह्निव्याप्यत्वं जातं तदा धूमवति पर्वते वह्निसिद्धिः सुजातैव । कुतः ? यत्र व्याप्यं तत्र व्यापकेन स्थातव्यमवश्यमिति कृत्वा
8. Repetition of a seems to be also a stylistic peculiarity of गुणरत्न. - २, अवच्छिन्नं नाम तदभाववदवृत्तित्वम् अवच्छेद्ययस् । यथा धूमो वयवच्छिन्नः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org