________________
१९०
। न्यायसिद्धान्तदीपे विप्रतिपत्त्यन्तरमाह-ज्ञानमिति(९१-४) । तथा च ज्ञानं विशिष्टज्ञानत्वेन प्रवृत्तिजनक चेदागतं, तदा विसंवादिप्रवृत्तिस्थले विशिष्टज्ञानं प्रवर्तकं वक्तव्यं तच्च पुरोवर्तिशुक्तिविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानं तदेव भ्रमः ।
दूषयति-सम्रहेति(९१-६)। तथा च शुक्तौ रजते च इमे शुक्तिरजते इदं यत् समूहालम्बनं प्रमारूपं तादृशमेव ज्ञान सिध्यति, न त्वयन्थाख्यातिरूपम् इदमपि समूहालम्बनं शुक्त्यंशेऽरजतविशेष्यकं प्रमारूपं तद्रजतांशे रजतज्ञानं भवति, अरेजतं या शुक्तिस्तद्विषयं भवति, रजतांशे यद्रजतत्वप्रकारकं ज्ञानं तस्य विषयोऽपि भवति यतः शुक्तिरजतयोरिदं एकमेव समूहालम्बनरूपं ज्ञानम् । नापीति(९१-६)। इदमेव यत्समूहालम्बनं शुक्तिरजतोभयविशेष्यकं प्रमारूपं तद्रजतांशे रजतज्ञानं भवति अरजतं या शुक्तिस्तद्विषयकमपि भवति, यतो ह्युभयविषयकम् एकमेव ज्ञानम् । अत एवेति(९१-६)। समूहालम्बनेनार्थान्तरत्वादेवेत्यर्थः ।
दूषणान्तरमाह-अन्यथाख्यातीति(९१-७ । रजतत्वप्रकारकज्ञानविषयत्वाभावो हि निषेधकोटिः सा चाप्रसिद्धा । कुत्रापि पदार्थे रजतत्वप्रकारकज्ञानविषयत्वाभावो नास्ति यथा सर्व रजतमिति भ्रममादाय सर्वस्यापि पदार्थस्य रजतत्वप्रकारकज्ञानविषयत्वात्। तैरिति(९१-७) नैयायिकैः । केवलान्वयित्वेति(९१-८)। यतः सर्वं रजतमिति यद्रजतत्वप्रकारकं ज्ञानं तद्विषयत्वं सर्वस्मिन्निति रजतत्वप्रकारकज्ञानविषयत्वस्य सर्वत्र वृत्तित्वात् केवलान्वयित्वम् ।
नापीति(९१-८)। इदमिति ज्ञानस्य यधप्यन्यथाख्यातिरूपत्वमागतं तथाऽपि भिन्नभिन्नानां चैत्रमैत्रादिज्ञानानां भ्रमरूपत्वेन यत् साधारण्यं तत्तु नागतमेव । यथा इयं मदीयो गौः गोत्वात् सास्नादिमत्त्वात् । अत्र एतस्यां मम गवि गोत्वं यद्यपि सिद्धं तथापि चैत्रमैत्रगोव्यक्तिषु साधारण्येन गोत्वं न सिद्धं तद्वत् कस्यचिद् ज्ञानस्य यद्यपि अन्यथाख्यातिरूपत्वमागतं तथापि [न] सर्वसाधारण्येन । नापीति (९१-९)। विषयतायां मानाभावात्तदप्रसिद्धयाऽप्रसिद्धिरित्यर्थः । नापीति(९१-९)। प्राभाकर प्रति विषयताव्यधिकरणप्रकारावच्छिन्नविषयताकत्वमप्रसिद्धं यावान् प्रकारः स स्वाश्रयविषयतया समानाधिकरण एव । यतः प्राभाकरमते रजतमिति ज्ञाने रजतत्वं प्रकारः, तच्च रजतत्वं स्वाश्रयरजतविषयतया समानाधिकरणमेवेति । न च शुक्तिनिष्ठा या विषयता तया व्यधिकरणो यः प्रकारः रजतत्वं तदवच्छिन्नविषयताकत्वं विवक्षितमिति व्यक्तिविशेषविवक्षेया नोक्तदोष इत्यत आह-व्यक्तीति(९१-९)। तथा च
१. अप्रसिद्धिर्नास्तीत्ययं दोषः किन्तु प्रसिद्धिरेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org