________________
अन्यथाख्यातिवाद टिप्पनम् ।
१८९
कज्ञानलक्षणो भ्रमो जायते । नैयायिकमते व्यधिकरणप्रकारकज्ञानलक्षणो भ्रमः । प्राभाकराणां तु अनया सामग्रया शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भिन्नं जायते इदं नास्ति प्रमाणाभावात्, किन्तु नैयायिकाभिमतत्रितयरूपा या भ्रम सामग्री स एव भ्रमः । न तु सामग्रीजन्यमतिरिक्तं शुक्तिविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानमन्यथाख्यातिरूपं भ्रमः ।
अरजतमिति (९१ - १) । तथा च अरजतस्य शुक्त्यादेर्यदा रजतत्वप्रकारक - ज्ञानविषयता आगता तदेव शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भ्रमः इति नैया - यिकानां विधिकोटिः । यदा रजतस्य शुक्त्यादेः रजतत्वप्रकारिका ज्ञानविषयता नास्ति तदानीं शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं व्यधिकरणप्रकारकं स भ्रमो नास्तीति । न वेति (९१ - २) प्राभाकराणां कोटिः ।
विप्रतिपत्त्यन्तरमाह-रजत [ ज्ञान ] मिति (९१ - २ ) । रजतत्वप्रकारकं ज्ञानम् अरजतविशेष्यकम् । अत्रापि अरजतविशेष्यकं रजतत्वप्रकारकं ज्ञानं स एव भ्रमः पूर्ववदेव विधिकोटिर्नैयायिकानां निषेधकोटिः प्राभाकराणाम् ।
विषयतापक्षमधिकृत्याह - अरजतेति (९१ - २ ) । ऐतन्मते अरजतविशेष्यकरजतत्वप्रकारकज्ञानं न भ्रमः किन्तु अरजतविशेष्यकरजतत्वप्रकारकज्ञानविषयताक भ्रमः । तदेवाह - रजतत्व प्रकार के ति (९१ - २ ) । तथा चारजतस्य शुक्त्यादेः रजतत्वप्रकारकविषयताश्रयत्वमागतं स एव भ्रमः । न वेति ( ९१ - ३) पूर्ववत् । विशेष्यिकां विप्रतिपत्तिमाह-रजतत्वेति (९१ - ३ ) । अत्रापि रजतत्वप्रकारिका विषयता चेदरजतनिष्ठा आगता तदा अरजतविशेष्यकं रजतत्वप्रकारकविषयताज्ञानमागतमित्यन्यथाख्यातिसिद्धिः ।
ज्ञानपक्षिकां विप्रतिपत्तिमाह - ज्ञानमिति (९१ - ४) । स्वविषयतेति (९१-४) । विशेष्यनिष्ठा विषयतेत्यर्थः । अत एव शुक्तिविषयताक यद्रजतत्वप्रकारकं ज्ञानं स एव भ्रमः । इदमिति (९१ - ४) । पुरोवर्त्तिनि यदिदं ज्ञानं तद्विशेष्यनिष्ठा या विषयता तथा व्यधिकरणो यः प्रकाशे रजतत्वादिस्तेनावच्छिन्ना या विषयता सा विद्यते यस्य तत्कत्वम् । तथा च पुरोवर्त्तिज्ञानस्य पुरोवर्त्तिविषयताव्यधिकरणप्रकारावच्छिन्न-विषयताकत्वं स एव भ्रमः ।
१. नैयायिकैकदेशिमते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org