________________
अन्यथाख्यातिवादटिप्पनम् ।
अन्यथाख्याती प्राचीनविप्रतिपत्तिनिराकरणपूर्वकं विप्रतिपत्तिं रचयितुमुपक्रममाह-अन्यथाख्याताविति(९१-१) । ज्ञानस्य व्यधिकरणप्रकारकत्वे । सम्प्रदायेति(९१-१) । अत्रायमाशयः । नैयायिकमते इदं रजतमित्यत्र प्रथमतः शुक्को चाकचिक्यं दृष्ट्वा पुरोवत्तिशुक्तिरजतयोः नेदं रजतमिति मेदग्रहो नास्ति तदानीं चाकचिक्यवशात् स्मृतं यद्रजतं तवृत्ति यद्रजतत्वं तेन सह पुरोवत्तिशुक्तेः शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं जायते, इदमेव यदरजतविशेष्यकं रजतत्वप्रकारकं ज्ञानं स एव भ्रमः । सैव चाऽन्थाख्यातिः । प्राभाकरमते तु चाकचिक्यवशात् स्मृतं यद्रजतं तेन सह भेदाग्रहः १ पुरोवत्तिं ज्ञानं २ रजतस्मरणं ३ इति त्रयं प्रभाकरमते स एव भ्रमः । अत एव नैयायिकानां या भ्रमसामग्री स्मृतरजतभेदाग्रहः पुरोवर्तिज्ञानम् इदमेव शुक्तिरजतयोर्मेदाग्रहसहितं यत् पुरोवर्तिज्ञानं रजतस्मरणमिति ज्ञानद्वयम् स एव भ्रमः प्राभाकरमते । अत एव नेदं रजतमिति विपरीतदर्शनकाले रजतस्मरणं पुरोवर्तिज्ञानम् इदं ज्ञानद्वयं यद्यपि तिष्ठति तथाऽपि नैयायिकानां मते भ्रमो नोत्पद्यते । प्राभाकराणां तु नैयायिकाभिमता या भ्रमसामग्री तपो यो भ्रमः सोऽपि नास्ति, शुक्तिरजतयोर्भदाग्रहस्याभावात् । ज्ञानद्वयवद् भेदग्रहोऽस्ति भेदाग्रहस्यापि भ्रमसामग्रीत्वात् । अत एव सुषुप्तौ भेदाग्रहस्य विद्यमानत्वेऽपि पुरोवर्तिज्ञान-रजतस्मरणरूपा या भ्रमसामग्रो सैव नास्तीति सुषु. प्तो भ्रमो नोत्पद्यते नैयायिकमते । प्राभाकराणां तु नैयायिकमते या भ्रमसामग्री स एव भ्रमः । सा भ्रमसामग्री तु ज्ञानद्वयात्मिका पुरोवर्तिज्ञानं १ रजतस्मरण च २ तदात्मिका भ्रमसामग्री सैव नास्ति । तथा त्रयं मिलित्वा भ्रमसामग्री भेदाग्रहः १ पुरोवर्तिज्ञानं २ रजतस्मरणं३[इति त्रयं]मिलित्वा भेदसामग्री भवति । तथा च नैयायिकमते प्रथमतः पुरोवर्तिज्ञानं१ तदनन्तरं पुरोवर्तिनि यच्चाकचिक्यं दृष्टं तस्माद्यद्रजत स्मरणं जायते तद् द्वितीयं २ तयोः पुरोवर्तिस्मृतरजतयोर्यों भेदग्रहाभावलक्षणो भेदाग्रहः ३ इति त्रयं भ्रमसामग्रो तया सामय्या शुक्तिविशेष्यकर जतत्वप्रकार१. आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरेव च ।
तथाऽनिर्वचनख्यातिरित्याहुः ख्यातिपञ्चकम् ॥१॥ २. भेदग्रहो यत्रास्ति नेदं रजतमिति असंसर्गग्रहो यत्रास्ति रजतत्वं नास्तीत्येतादृशे ज्ञाने
भ्रमो नास्ति उक्तवैपरीत्ये अमोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org