________________
अपूर्ववादटिप्पनम् । कार्यान्यहितपूर्वे इत्यर्थः । तथाच व्यापारव्यापारिणोर्मध्ये यदन्यतरस्य कार्याव्यवहितपूर्ववृत्तित्वं तदेव व्यापारिणः पूर्ववृत्तित्वं कारणत्वमित्यर्थः । व्यापारी यागः । व्यापारोऽपूर्व, तथाच यद्यपि यागस्य स्वर्गाव्यवहितपूर्व वृत्तित्वं नास्ति तज्जन्यस्याऽपूर्वस्य स्वर्गाव्यवहितपूर्ववृत्तित्वं वर्तते तद्यागस्यैव पूर्ववृत्तित्वमिति यागकारणत्वमक्षतमिति ।।
वाचनाचार्य गुणरत्नगणिविरचिते शशिधरटिप्पने पूर्ववादः ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org