________________
१८६
न्यायसिद्धान्तदीपे ति(१,०-२०)। तथा च दण्डादीनामपि घटादिकार्य प्रति कारणत्वं न स्यात् । यत्र दण्डाभावे कार्य न जायते तत्र कपालविशेषो नास्ति । यथा दण्डाभावे घटादिकार्य न जायते इतिकृत्वा दण्डः कारणं तच्च नास्त्येव । कुतः ! यत्र दण्डाभावे कार्य न जायते तत्र कपालविशेषो नास्तीति कपाले विशेष परिकल्प्य दण्डादीनामपि कारणत्वं व्याहन्येत । तत्र कपालस्थले अतीन्द्रियाक्लप्तविशेषकल्पने गौरवमिति दण्डः कारणमिति यदि तदा प्रकृतेऽपि तुल्यम् । अतिप्रसङ्गादिति(९०. २१)। पूर्वोक्तयुक्तया दण्डादोनामपि कारणत्वं न स्यादित्यर्थः । यागस्य समयपरम्परैव व्यापार इति पूर्वोक्तं निरस्यति-अत एवेति(९०-२१) । यतः शरीरं न व्यापारः ध्वंसोऽपि न व्यापारः एवं कालपरम्पराऽपि न व्यापारस्तस्याः कालपरम्परायाः साधारणकारणत्वात् ।
कालपरम्पराव्यापारकल्पने अनुभवस्य स्मरणं प्रति कालपरम्परैव व्यापारी भविष्यतीति संस्कारस्याप्युच्छेदप्रसङ्ग इत्याह-किञ्चेति(९०-२२)। एवंविधेति (९०-२२)। कालपरम्परारूपव्यापारेणेत्यर्थः । अत्राशङ्कते-नन्विति (९०-२३)। मध्ये शङ्कते-न चेति(९०-२३)। तथा च चिरध्वस्तस्य(९०-२३) वस्तुनः फलं प्रति जनकता सा व्यापारद्वारैव । व्यापारं विना कारणत्वं न स्यादित्यर्थः । दूषयति-व्याप्ताविति(९०-२५) । चिरध्वस्तस्य या कारणता सा व्यापारद्वारैव इति व्याप्तो प्रमाणाभावात् । अत्राशङ्कते-न चेति(९०-२५)। यदि चिरध्वस्तस्य व्यापार विना कारणत्वं स्यात् तदा कारणाभावेऽपि कार्यम् अकारणाभावेऽपि कार्य तदा कारणाकारणयोरविशेषापत्तिः । स्वर्गेऽकारणं घटः तदभावेऽपि कार्य स्वर्गलक्षणं जायते, यागाभावे चेत् कार्य स्वर्गस्तदा घटयागयोरविशेषप्रसङ्गः । कुतः ? कार्यकाले स्वर्गकार्यकाले घटयागयोरविद्यमानत्वात् । निरन्वयेति(९०-२५)। व्यापारशून्यं सच्चिरध्वस्तमित्यर्थः । दूषयति-कारणत्वस्येति(९०-२६) । उभयोः चिरध्वस्ताकारणयोः कार्यकालेऽविद्यमानत्वेऽपि चिरध्वस्ते कारणेऽकारणापेक्षया कारणत्वमेव विशेषः । अकारणे कारणत्वं नास्त्ययमेव विशेषः । दूषयति-एतदपीति(९०२६)। यदि चिरध्वस्तस्य व्यापारं विना कारणता स्यात् तदा कारणत्वमेव न स्यात् । कुतः ! कारणत्वं हि कार्याव्यवहितपूर्ववर्तित्वम् । व्यापारशून्यस्य चिरध्वस्तस्य कार्याव्यवहितपूर्ववृत्तित्वमेव नास्ति, कथं कारणत्वं स्यात् । व्यापारश्चेत् चिरध्वस्तस्य स्वोक्रियते तदा व्यापार एव कार्याव्यवहितपूर्ववृत्तित्वं तच्चिरध्वस्तस्यैव चिरध्वस्तस्य कारणता स्यादित्यर्थः । ननु व्यापारपक्षेऽपि कार्याव्यवहितपूर्ववृत्तित्वं चिरध्वस्ते नास्ति कथं कारणत्वं स्यात् इत्यत आह-तत्पूर्वेति (९०-२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org