________________
अपूर्ववादटिप्पनम् । तथा च कल्पनाया अविशेषे कालपरम्परैव व्यापारोऽस्तु । ननु कालस्य सर्वसाधारणत्वात् स न व्यापारः सम्भवतीत्यत आह-अस्त्विति(९०-१३) । तथा च याग एव सूक्ष्मरूपेण फलपर्यन्तं तिष्ठतीति न व्यापारान्तरस्याप्यपेक्षा । क्रियाशब्देना। यागक्रिया । सिद्धान्तमाह-नैयायिकः-न तावदिति(९०-१३) । ध्वंसव्यापारवत्त्वं तु पूर्वमेव स्वण्डितम् । यदि यागक्रियायाः शरीरं व्यापारः तदा प्रलयानन्तरं यत् फलं तन्न स्यात् । प्रलये सर्वशरीराणां नाशात् । तथा च इदानी क्रियमाणस्य प्रलयानन्तरं यत् फलं तन्न स्यात् । तस्य यागव्यापारस्य शरीरस्य प्रलये नष्टत्वात् । ननु इदानी क्रियमाणात् यागात् प्रलयानन्तरं फलं नास्त्येव इत्यत आह-प्रलयानन्तरमिति(९०-१४) । तथा च प्रलयानन्तरमपि इदानी क्रियमाणात् यागात् स्वर्गादिरूपं फलं प्रमाणसिद्धं भवति । बलिरिन्द्रो भविष्यतीत्यादिना प्रलयानन्तरमपि स्वर्गा भविष्यति
अत्राशङ्कते-प्रलये(९०-१५)इति । तथा च यागजन्यं स्वर्गोपभोगयोग्य तादृशं शरीरं यत् प्रलयेऽपि न नश्यते इत्यर्थः । दूषयति । धर्मीति(९०-१५) । तथा च येन प्रमाणेन प्रलयः सिद्धः तेन प्रमाणेन सकलकार्यद्रव्यविनाशविशिष्ट एवं सिद्धः । तथा च प्रलये सर्वेषां कार्यद्रव्याणां विनाशात् तन्मध्ये शरीरस्यापि विनाशः। कुतः ? शरीरस्यापि कार्यद्रव्यरूपत्वेन तस्यापि नाशात् कथं व्यापारत्वं शरीरस्य । दूषणान्तरमाह-किच्चेति(९०-१७) । तथाच शरीरं प्रति यागस्य कथं कारणत्वम् ? । साक्षाद्यागजन्यत्वं शरीरस्य न सम्भवति, किश्चिन्मध्ये व्यापारो वक्तव्यः, तथा च सः को व्यापार इत्यत आह -अत(९०-१७)इति । शरीरारम्भकपरमाणुक्रियाद्वारा शरीररस्य यागजन्यत्वं वक्तव्यं, न च सा परमाणुक्रिया यागजन्या इत्याहतस्याश्चेति(९० -१८) । तस्याः परमाणुक्रियायाः यागजन्यत्वं न सम्भवति । कुत इत्यत आह-व्यभिचारादिति(९०-१८) । यागव्यतिरेकेणापि परमाणुक्रियायाः नोदनाभिघातात् जायमानत्वात् । अत्राशङ्कते-न चेति (९०-१८) तथा च नोदनाभिघातजन्या परमाणुक्रिया विलक्षणा, यागक्रियाजन्या परमाणुक्रिया सा विल. क्षणा । तथा च विलक्षणां परमाणुक्रियां प्रति यागो न व्यभिचारीति । परमाणुक्रियातज्जन्यशरीरद्वारा स्वर्ग प्रति यागस्य कारणत्वं स्यादेव ।
___ दूषयति-तद्विशेषेति(९०-२०)। अक्लृप्तयागजन्यपरमाणुक्रियायां स्वर्गोपभोगजनकशरीरारम्भकवैजात्यकल्पने कल्पनागौरवप्रसङ्ग इत्यर्थः । नोदनाभिघातजन्यपरमाणुक्रियातः यागजन्यपरमाणुक्रियायाः वैजात्यम् । विपक्षे बाधकमाह-अक्लुप्ते
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org