________________
न्यायसिद्धान्तदीपे
अत्राशङ्कते नन्विति (९० - ४) । अपूर्वे कल्प्यमपि न भवति, कुतः १ इत्यत आह— अन्यथेति (९० - ४) अपूर्वव्यापारेण विनाऽपि स्वर्गसाघनत्वं सम्भवत्येवेत्यर्थः । तर्हि को व्यापार इत्यत आह-याग (९० - ४ ) इति । तथाच यागध्वंस एव यागजन्यो फलपर्यन्तस्थायी स एव व्यापारोऽस्त्वित्यर्थः । अत्राशङ्कते - ध्वंसस्येति (९०-५) । तथा च ध्वंसस्यानन्तत्वेन फलस्याप्यनन्तत्वापत्तिः । यावत्पर्यन्तसामग्री तावत्पर्यन्तकार्यं तथाच अनिर्मोक्षापत्तिरिति स्वर्गसुखस्यानन्तत्वात् तस्य विनाशो नास्तीति भशेषविशेषगुणोच्छेदो न स्यादित्यर्थः । दूषयति - तावदिति (९०-६) । तथाच अपूर्वकल्प्यवादिनोऽपि मते तादृशादपूर्वादनन्तं फलं कुतो न भवति । यद्यपूर्वस्य तादृशः स्वभावः तावत्कालमेव फलं जनयितव्यं तर्हि ध्वंसस्यापि तथा स्वभावोऽस्तु तावत्समयं तावत्कालं यत् फलं तस्य यजनकत्वं स स्वभावो यस्य तस्य भावः स्वाभाव्यम् (९० - ६ ) इति ।
ननु ध्वंसस्याभावरूपत्वेन गुरुत्वात् अपूर्वमेव व्यापारो लघुभूत इत्यत आह— धर्मीति (९० - ७) । अपूर्ववादिमते अपूर्वमपि कल्प्यं तत्र व्यापारत्वं धर्मोSपि कल्पनीयः । प्रकृते तु ध्वंसस्योभयवादिसिद्धत्वात् धर्मी सिद्धस्तत्र व्यापारमात्र धर्म एव कल्प्यते । धर्मो ध्वंसः व्यापारत्वं धर्मः । स एव कल्प्यः । धर्मी अपूर्वं । तत्कल्पनातः सिद्धे धर्मिणि यागध्वंसे व्यारत्वमात्र कल्पना लघीयसी ।
१८४
शङ्कते - नन्विति (९० - ९ ) । तथाच धर्म एव यागस्य व्यापारः येन कीर्त - नेन फलजनको व्यापार धर्म एव नाश्यते । व्यापारनाशस्तु ध्वंसे व्यापारे कल्प्यमाने 'न सम्भवतीत्याह- तत् त्विति (९० - १० ) । तत् क्षरणं मारा इत्यर्थः । कुत इत्यत आह विरोधादिति (९० - - १० ) । ध्वंसस्य नाशे नष्टस्य घटस्य पुनरुन्मज्जनप्रसङ्गः । दूषणान्तरमाह - प्रायश्चित्तेति (९० - १० ) | यदि अगम्यागमनात् पापं नोत्पद्यते पापध्वंस एव चेद्व्यापारस्तदा प्रायश्चित्तं विफलं स्यात् । दूषणान्तरमाह - यागेति (९० - १० ) । यदि यागध्वंस एव व्यापारस्तदा कारणीभूताभावप्रतियोगित्वेन यागस्य प्रतिबन्धकता स्यात्, स्वर्गं प्रति कारणीभूतो योऽभावः यागध्वंसस्तप्रतियोगित्वं यागस्य वर्त्तते इतिकृत्वा यागस्य प्रतिबन्धकता स्यात् इत्यर्थः । नैवमिति (९० - ११) । ध्वंसो व्यापारो न सम्भवतो ( ९० - १० त्युपसंहारः । ननु (८९ - ९) इत्यारभ्य न ( ८९ - १० ) पर्यन्तं शङ्का ।
दूषयति-अस्त्विति (९०-१२) । माऽस्तु यागध्वंसो व्यापारः व्यापाराऽनपेक्षयैव स्वर्गे भोगयोग्यमतीन्द्रियं यागेन जन्यते तेन च शरीरेण ऐहिकशरीरपरित्यागानन्तरं स्वर्गो जन्यत इति न व्यापारान्तरापेक्षा । प्रकारान्तरमाह-यद्वेति (९०-१३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org