________________
अपूर्ववादटिप्पनम् ।
१८३ एवोपस्थितिः न कलजं भक्षयेदित्यादौ अत्र क्रियाया असम्भवाल्लिङ्पदात् कथं क्रियोपस्थितिः स्यात् । कुतः ? कलञ्जभक्षणनिषेधस्य क्रियारूपत्वाभावात् । तस्मात्तत्र निषेधस्थले अपूर्वलाभो न स्यात् ।
अत्राशङ्कते-न चेति (८९-२२)। तत्रेति विहितस्थले लिङ्पदात् शक्त्या अपूर्वोपस्थितिनिषेधस्थले लिङ्पदात् लक्षणया निषेधाऽपूर्वस्योपस्थितिरिति न च । दूषणमाह-प्रमाणेति (८९-२२)। अपूर्व त्वेन रूपेण उभयोरपूर्वयोः समानत्वे एकत्र शक्तिरपरत्र लक्षणेति नियामकाभावात् निषेधापूर्वमेव लिङ्पदवाच्यं विहिता. ऽपूर्व लक्षणा इति वैपरीत्यमेवास्तु इत्याह । वैपरीत्यस्येति(८९-२२) । ननु यागस्य स्वर्गसाधनत्वान्यथाऽनुपपत्त्या लिङपदवाच्यमपूर्वमित्यत आह–अन्यथेति (८९-२३) अपूर्वस्य लिङ्पदवाच्यतां विनाऽपि यथा स्वर्गसाधनत्वान्वयस्तथा प्रागेवोक्तम् ।
__ दूषणान्तरमाह-अपूर्ववाच्यतायाम् ब्रह्महत्येति (८९-२४)। यदि विहितयागादिस्थले स्वर्गसाधनत्वान्वयोपपत्त्यर्थं लिवाच्यमपूर्व, तदा ब्रह्महत्यादिकियाया नरकसाधनत्वग्रहो न स्यात् । कुतः । ब्रह्महत्यादिक्रियाया आशुतरविनाशित्वेन नरकसाधनत्वग्रहो न स्यात् । ननु यथा यागक्रियायाम् अपूर्व वाच्यं तथा अत्रापि ब्रह्महत्यायां नरकफलव्यापारोऽपूर्ववाच्यमस्तु इत्यत आह-तत्रेति (८९-२४) । तत्र ब्रह्महत्यादिस्थले परेण दुरदृष्टं कल्प्यमेव स्वीक्रियते न तु लिङादिवाच्यम् ।
__ भवतु वा ब्रह्महत्यादिक्रियायां दुरदृष्टं लिङादिवाच्यं तथाऽपि अनुभवस्य स्मरणं प्रति कारणताग्रहे का गतिरित्याह-अनुभवस्येति (८९-२५) । तथाच संस्कारस्याऽतीन्द्रियत्वात् तद्वारा ग्रहे कार्यकारणभावनिश्चयो न स्यात् इत्यर्थः । तत्रापीति (९०-१) अनुभवस्मरणस्थले यागे स्वर्गसाधनत्वान्वयानुपपत्तिवत् अनुभवस्य स्मरणं प्रति साधनत्वग्रहो न स्यात् इत्यर्थः । प्राभाकरोक्तदूषणगणस्तु साधनत्वान्वयानुपपत्तिः । अनुभवस्य स्मरणं प्रति तद्वारा ग्रहे कारणत्वग्रहश्चेत् तदाहअत्रेति (९०-२) । अनुभवस्मरणयोः तद्वारा ग्रहे चेत् कारणत्वग्रहस्तदा यागस्वगयोः किमपराद्धं कारणत्वग्रहेण । परिहासपूर्वमुपसंहरति तम्मादिति (९०-२) । अपूर्वे वाच्यत्वाभिमानः अपूर्व (९०-३) एव नियुक्तिक एव । परस्येति (९०-३) प्राभाकरस्येति । तस्मात् (९०-२) यागे स्वर्गसाधनत्वग्रहानन्तरम् । सा स्वर्गसाधनता व्यापारेण विना न सम्भवतीति अपूर्वमेव व्यापारः कल्प्यते ।
१. Text reads only द्वारा ग्रहे Instead of तद्द्वारा ग्रहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org