________________
१८२
न्यायसिद्धान्तदोपे उपलक्षणेन शक्तिग्रह इति दूषयति-न चेति (८९-१६)। उपलक्ष्यस्येति (८९-१६)। अनुगतस्योपलश्यतावच्छेदकस्याभावादित्यर्थः । एवमग्रेऽपि । उपलक्षणं नाम उपलक्ष्यतावच्छेदकम् । तदपूर्वत्वम् (८९-१६)। उपलक्ष्यमपूर्वम् । तेन अपूर्वत्वेन समम् । तस्येति कोऽर्थः, तस्याऽपूर्वस्य सम्बन्धाज्ञानात् । यदि उपलक्षणेन उपलक्ष्यस्य सम्बन्धश्चेत्' ज्ञायते तदा तेन रूपेणोपस्थितिर्भवति । यथा काकवन्तो देवदत्तगृहा इत्यत्र काकपदेन उत्तणत्वमुपलक्ष्यते । उपलक्ष्यतावच्छेदकस्य उत्तणत्वस्य गृहस्य सम्बन्धश्चेत् ज्ञातो भवेत् तदा तेन रूपेण प्रतीतिः। अन्यथा तु न । एवमत्रापि । अपूर्वत्वेनाऽपूर्वस्य सम्बन्धो ज्ञातो न वा । यदि न ज्ञातस्तदा कथं तेन रूपेणोपस्थितिः । यदि ज्ञातस्तदाह-प्रतिसन्धाने वेति (८९-१७)। अपूर्वं हि कल्प्यं तच्च अपूर्वत्वेन रूपेण प्रथमतो ज्ञातं तदाऽपूर्वत्वक्षतिरित्यर्थः ।
प्रकारान्तरमाशङ्कते । न चेति (८९-१८)। तथाच लिपदस्य कार्यत्वेन रूपेण कार्य एव शक्तिस्तच्च कार्यमस्थिरक्रियादिकमपि भवतीति तद्वारणायापूर्वत्वं प्रयोगोपाधिः । प्रयोगोपाधिस्तु शक्यतावच्छेदकरूपेण शक्योपस्थितौ अतिप्रसङ्गवाररणार्थ य उपाधिः स प्रयोगोपाधिः । अत्र च कार्यत्वेन रूपेण स्थिरास्थिरघटादिवारणार्थ लिङपदस्यापूर्वत्वं प्रयोगोपाधिः । अत्रानुरूपं दृष्टान्तमाह-पङ्कजपदेति (८९१९)। केवलयोगवादिनां मीमांसकानां पङ्कजनिकर्तृत्वस्य कुमुदजलजन्तुसाधारण्यात् तत्र प्रसङ्गवारणार्थ पद्मत्वं प्रयोगोपाधिः तद्वदत्रापूर्वत्वं प्रयोगोपाधिः ।
दूषयति-अप्रतीतस्येति (८९-१९)। यथोपलक्ष्यतावच्छेदकं प्रतीतं चेद्भवति तदा तेन रूपेणोपस्थितिः । प्रतीतं चेन्न भवति तदा तेन रूपेण उपस्थितिर्न भवति । तथाऽत्रापि यदि अपूर्वस्वं प्रयोगोपाधिस्तद्यद्यपूर्वत्वेन रूपेणोपस्थितं स्यात् तदा स प्रयोगोपाधिस्तदेव च न सम्भवति । वाक्यार्थचोधात् पूर्व तस्याऽपूर्वस्याऽपूर्वत्वेन रूपेणोपस्थितिरेव नास्ति । यधुपस्थितिः स्यात्तदाऽपूर्वत्वं व्याहन्येत । दूषणान्तरमाहप्रयोगोपाधोति (८९-१९)। पद्मत्वे प्रयोगोपाधिन भवतीति व्याख्यातं पूर्वोक्तं दूषणम् ।
निरस्यति-न चेति (८९-२१) । विहितस्थले यथा लिपदस्याऽपूर्व वार्य तथा निषेधस्थलेऽपि न कलजं भक्षयेदित्यादावपि लिपदस्यापूर्व वाच्यमित्यर्थः । न चेत्यारभ्य (८९-२१) लाभ(८९-२१)पर्यन्तेनान्वयः । दूषयति-लोके इति (८९२१) । लिङ्पदस्य क्रियायामेव शक्तिर्गृहीता वर्तते इतिकृत्वा लिङ्पदात् क्रियाया
3. Use of both and #or use of the twice is also stylistic peculiarity of गुणरत्न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org