________________
अपूर्ववादटिप्पनम् ।
१८१ तथाच विशेषणबाधे विशेषणस्यान्वयो मा भूत् । विशेषणस्य साक्षात्वस्य बाधे साक्षात् कारणत्वस्य अन्वयो मा भूत् । कारणत्वसामान्यं यद् विशेष्यं तस्यान्वयबाधस्तु नास्तीत्याह-तथात्रेति (८९-१०)। विशेषणे साक्षात्त्वरूपे बाधात् । तस्येति (८९-११)। साक्षात्त्वकारणत्वस्यान्वयो यागेऽन्वयो मा भूत् ।
ननु साक्षात्त्वरूपकारणबाधे कस्यान्वयो भविष्यतीत्यत आह-सामान्येति(८९११)। साधनत्वसामान्यस्येत्यर्थः । एकविशेषबाधे सामान्यान्वयबाधो नास्तीत्यत्रानुरूपं दृष्टान्तमाह-दण्डेति(८९-११)। पुरुषो विशेष्यं तस्यादण्डिभ्यो व्यावर्तकत्वाद्विशेषो विशेषणं दण्डस्तस्य बाधेऽपि विशेष्यस्य पुरुषस्य बाधो नास्ति किन्तु पुरुषस्यान्वय एव । पूर्वोक्तं दृष्टान्तमपि निराकरोति । एवमिति(८९-१२)। घटे छिद्रत्वं विशेषधर्मः । तस्य बाधेऽपि छिद्रत्वेन जलाहरणान्वयो मा भूत् घटत्वेन रूपेश स्यादेवान्वय इत्याह-घटत्वेनेति (८९-१२)। तत्रापीति(८९-१३) । जलाहरणादौ घटत्वेनान्वयबोधोऽविरुद्ध एव । अत्राशङ्कते-घटत्वस्येति(८९-१३)। अयोग्यवृत्तिधर्मेण घटत्वेन कथमन्वयः । जलाहरणेऽयोग्यो यः छिद्रघटस्तवृत्तिना घटत्वेन कथं जलाहरणान्वयः । छिद्रसाधारण्यादिति (८९-१३) । घटत्वस्य छिद्रघटवृत्तित्वादित्यर्थः । यथाऽच्छिद्रे घटे घटत्वं तद्वत् सच्छिद्रेऽपि घटत्वं वर्तत एवे यर्थः । समाधत्ते-तथात्वे(८९-१४) इति । अयोग्यवृत्तिधर्मेण नान्वय इति न, किन्तु अयोग्यमात्रवृत्तिधर्मेणान्वयो वर्तते । अन्यथा गोत्वस्य देशान्तरगोवृत्तितया देशान्तरगोव्यक्तेशनयनान्वयासम्भवेन गोत्वेनानयनान्वयो न स्यात् । तत्र यदि अयोग्यां गोव्यक्तिमपट्टाय योग्यगोव्यक्तिमादाय गोत्वेनानयनान्वयः न तु देशान्तरस्थगधेतरगोत्वेनान्वयस्तथाऽत्रापि घटत्वस्यायोग्यछिद्रवृत्तित्वेऽपि योग्यतया छिद्रव्यक्तिमपहायाच्छिद्रव्यक्तिमादाय घटत्वेनैवान्वयो न तु छिद्रेतरघटत्वेनेत्यर्थः । तथात्वेऽपीति (८९-१४)। घटत्वस्यायोग्यत्ववृत्तित्वेपीत्यर्थः। ननु योग्यमात्रवृत्तिधर्मेणैव सर्वत्र क्रियान्क्यो न तु योग्यायोग्यसाधारणेन धर्मेण अत एव देशान्तरस्थगोव्यक्तेरानयनान्वयायोग्यत्वेऽपि गोपदलक्षणया देशान्तरस्थगवेतरगोत्वेन रूपेणोपस्थितौ आनयनान्वयः । एवं घटपदलक्षणयाऽपि छिद्रेतरत्वेनोपस्थितौ जलाहरणान्वय इत्यत आह-नत्विति (८९-१४) । अच्छिद्रत्वेनेत्यर्थः । बाधकमाह -युगपदिति (८९-१४) घटपदात् शक्त्या घटत्वेनोपस्थितिलक्षणयाऽच्छिद्रत्वेन तदा युगपत्तिद्वयविरोधः । युगपदवृत्तिद्वयविरोधस्या(८९-१५)यमर्थः द्वाभ्यां वृत्तिभ्यां एकदा एकस्मात् पदान्नानार्थोपस्थितिस्तु नास्त्येव, तथाच घटपदात् शक्त्या घटत्वेनोपस्थिती लक्षणया छिदेतरत्वे एकदा एकस्माद् घटपदात् उपस्थितौ वृत्तिद्वयविरोधः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org