________________
१८०
न्यायसिद्धान्तदीपे अबाशाते-न चेति (८९-४) । यद्यपि सामान्यतः साधनत्वबोधः व्यापास्मनान्ताव्य भवत्ययं नियमो नास्ति तथापि साक्षात् साधनत्वबाधे परम्परासाधनत्वबोधो यः स व्यापारमनन्तर्भाव्य भवतीति न । किन्तु साक्षात् साधनताबाधे यः साधनत्वबोधः स परम्परामादायैव विश्रान्तो भवति । परम्पराघटकस्तु व्यापारोऽपेक्षत एव। स व्यापारोऽपूर्वमेव लिङादिवाच्यम् कल्प्यते इत्याह-एतावतैवेति (८९-५)। एलावता साक्षात् साधनताबाधे परम्परासाधनत्वप्रतीतिरित्यर्थः । क्रियाव्यापारे (८९-५) इति । यागादिकर्मव्यापारे । तथाच साक्षात् साधनत्वबाधे परम्परासाधनता प्रतीयते । सा च परम्पराघटकेन विना न प्रतीयते । परम्पराघटकं तु अपूर्व लिङादिवाच्यं विना न सम्भवतीति । न च युक्तमित्यनेन सम्बन्धः ।
- दूषयति-छिद्रेतरेति (८९-६)। घटेन जलमाहरेत्यत्र सछिद्रघटस्य जलाहरणायोग्यत्वात् । छिद्रेतरघटेन जलाहरणान्वयबोधो जायते इतिकृत्वा छिद्रेतरस्वेऽपि शक्तिकल्पनापत्तिः । न हि छिद्रेतरत्वबाधकं किञ्चित् पदान्तर तिष्ठति । तथाच घटपदस्यैव छिद्रेतरत्वे शक्तिकल्पनापत्तिः । तथा च तत्र यदि छिद्रेतरत्वरूपेणैव सर्वत्र घटे जलाहरणान्वयबोधो नास्तीत्युत्तरं तदा यागे स्वर्गसाधनत्वबोधः साक्षात्साधनत्वबाधदशायामेव भवति अयं नियमो नास्ति येन परम्परासाधनत्वस्यैव प्रतोतिरावश्यकी स्यादित्यभिप्रायेणाह-न चात्रेति (८९-६)। यागे स्वर्गसाधनत्वग्रहे परम्पराकारणताप्रतीतिरस्ति [ इति ] अयं नियमो नास्ति । युक्तिमाहसाक्षादिति (८९-७)। यदा साक्षात्साधनत्वबाधप्रतिसन्धानं नास्ति तदानी परम्परासाधनस्य स्फुरणमपि नास्तीति कुतः परम्पराघट काऽपूर्वोपस्थित्यर्थ लिङादिशक्तिकल्पनमित्यर्थः । अत एवाह-चरणेति (९९-८)। अपूर्वे लिशक्तिप्रसारणं नास्तीत्यर्थः ।
ननु साक्षात्साधनत्वबाधप्रतिसन्धानं यदा वर्त्तते तदानीं तु परम्परासाधनत्वप्रतीतिरावश्यकी यतः साक्षात्साधनत्वबाधे परम्परासाधनत्वेन विना साधनत्वमात्रमेवाऽनुपपन्नं स्यादित्यत आह-किच्चेति (८९-९) । एकविशेषबाधेऽपि न सामान्यान्वयबाध इति न्यायेन साक्षात्साधनत्वबाधेऽपि साधनत्वसामान्य बाधो नास्ति । यथा घटे नीलरूपबाधेऽपि रूपसामान्यबाधो नास्ति तद्वदत्रापि साक्षात्साधनत्वबाधे साधनत्वसामान्य बाधो नास्ति । एतदेव विवृणोमि -कारणत्वं हीति (८९-९)। तस्येति (८९-१०)। तस्य कारणत्वमामान्यस्य साक्षात्त्वं परम्परात्वं च विशेषणम् । यद्यपि साक्षात्त्वं परम्परात्वं कारणत्वं सामान्याश्रयनिष्ठो धर्मः तस्यैव विशेषणं तथापि कारणत्वं न कारणस्वरूपातिरिक्तमित्यभिप्रायेण कारणत्वस्य विशेषण मत्यभिप्रायेणोक्तं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org