________________
अपूर्ववादटिप्पनम् ।
१७९ वाक्ये एतत्वेन रूपेण सजातीयोऽन्यो नास्तीति तत्र योग्यतालक्षणं नास्तीत्ययं दोषो द्रष्टव्यः । तदभावादिति (८९-१) तस्य सजातोयान्वयदर्शनरूपयोग्यतालक्षणस्याभावादित्यर्थः । . अशक्येति(८९-१)। एकस्मिन् पदार्थे अपरपदार्थाभावाप्रतियोगित्वं योग्यता । वह्निना सिञ्चेदित्यत्र इदं योग्यतालक्षणं नास्ति । सिञ्चनपदार्थस्य वह्निपदार्थनिष्ठो यः सिञ्चनपदार्थाभावस्तत्प्रतियोगित्वमेव सिञ्चनस्य वर्तते । विलोक्यतेऽप्रतियोगित्वं जलेन सिञ्चतीत्यत्र । इदं पूर्वोक्तं लक्षणं वर्तते, सिञ्चनपदार्थस्य जलपदार्थनिष्ठो योऽभावः स सिञ्चनाभावो जले नास्ति किन्तु घटाघभावस्तस्याप्रतियोगित्वं जले तिष्ठति । इदमपि योग्यतालक्षणं निर्वक्तुं न शक्यते । वृक्षः कपिसंयोगीत्यादौ एतल्लक्षणाभावः । कुतः ? इदं योग्य वाक्यं भवति । अत्र इदं योग्यतालक्षणं नास्ति, कुतः ? वृक्षपदार्थेऽपरपदार्थस्य योऽभावः कपिसंयोगाभावस्तत्प्रतियोगित्वमेव कपिसंयोगे वर्त्तते इत्यादिकमपि लक्षणं न सम्भवति ।
किं तद्योग्यतालक्षणमित्यत आह- तस्मादिति (८९-२)। बाधकप्रमाणाभाव एव योग्यता । परस्परपदार्थसंसर्गाबाध इत्यर्थः । स च वह्निना सिञ्चेदित्यत्र नास्ति । परस्परपदार्थयोः वह्निसिञ्चनयोः संसर्गे बाधकमेवास्ति । जलेन सिञ्चतीत्यत्र जलसिञ्चनपदार्थयोः संसर्गे बाधो नास्ति । तत्र योग्यतालक्षणं वर्तते । तद्योग्यतालक्षणं योजयति-सा चेति (८९-२)। यागस्वर्गसाधनत्वपदार्थयोः संसर्गे कुत्रापि बाधस्तु दृष्टो नास्ति इति तत्र योग्यता वर्तते किमर्थमपूर्व लिङादिवाच्यम् । सा चेति (८९-२) । बाधकप्रमाणाभावो योग्यता । अत्रेति यागस्वर्गसाधनत्वयोर्वर्त्तत एव । साधनत्वेनेति (८९-३)। साधनत्वेन प्रकारेण सा बाधकप्रमाणाभावो योग्यता वर्तते एव । स बाधकप्रमाणाभावः कथं वर्तत इत्यत आह-न हीति (८९-३)। यागे स्वर्गसाधनत्वं केनापि प्रमाणेन बाधित दृष्टं नास्ति येन बाधकप्रमाणाभावरूपा योग्यता न स्यात् । किञ्च लिङादिवाध्यमपूर्वं तदा स्यात् यदि यागे स्वर्गसाधनत्वबोधः, परम्पराघटकव्यापारमादायैवं चेत् स्यात् तदा परम्पराघटकोपस्थित्यथै लिङादिवाच्यमपूर्व स्यात् । तच्च नास्त्येवेत्याह-न चेति (८९-४)। न हि कपालस्य घटकारणत्वबोधे व्यापारमादाय घटकारणत्वबोधः । अन्वयबोध (८९-४) इति । साधनत्वबोध इत्यर्थः । एतदेवाह-प्रमाणाभावादिति (८९-४)। सर्वत्र साधनत्वबोधः व्यापारमन्तर्भाव्यैव भवतीत्यं नियमो नास्ति । अत्र प्रमाणं नास्तीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org