________________
२०२
न्यायसिद्धान्तदीपे त्याह-संशयेति (९३-२२)। संशयमेव विवृणोति-एकस्मिन्निति (९३-२३)। तथा च एकस्मिन् धर्मिणि परस्परविरुद्धयोः पदार्थयोर्यो भेदाग्रहः स एव तव प्राभाकरस्य संशयः।
अत्राशङ्कते प्राभाकरो-न चेति (९३-२३)। तथा च सति स्थाणो स्थाणुभेदाग्रहश्चेत् तदा संशयः स्यात् , अत्र स्थाणुभेदाग्रहस्तु नास्ति किन्तु स्थाणुभेदग्रह एव । दूषयति-विपरीतेति (९३-२४) । तथा च यदि स्थाणौ स्थाणुभेदग्रहस्तदाऽन्यथाख्यातिः स्यात् । उपसंहरति-तस्मादिति (९३-२४) । विपरीता ख्यातिरन्यथाख्यातिः ।
__ प्राभाकरः समाधत्ते-संशयानन्तरमिति (९४-१)। स्थाणौ पुरुष एवायमिति व्यवहारः । सोऽपि पुरुषस्यान्यथाख्यातिरूपादारोपान्न, किन्तु पुरुषभेदाग्रहादेव । न चेति (९४-२) । तथा च पुरुष एवायमिति व्यवहारकालेऽपि परस्परविरुद्धोभयभेदाग्रहस्य विद्यमानत्वात् पूर्ववत् संशयः स्यादित्यर्थः । समाधत्ते-स्वतन्त्रेति (९४-२)। तथा चोभयविरुद्धभेदाग्रहमात्रं न संशयः, किन्तु स्वतन्त्रोपस्थितविरुद्धोभयभेदाग्रह एव संशयः । ततः किम् ? इत्यत आह-पुरुष एवेति (९४-३)। तथा च यत्र स्थाणी पुरुष एवायं न स्थाणुरिति व्यवहारस्तत्र यद्यपि स्थाणुभेदाग्रहो वर्तते तथापि स स्वातन्त्र्येण स्थाणुभेदाग्रहो भवति स्वतन्त्रोपस्थितयोविरुद्धयोर्भेदाग्रहः संशयः । कुतः ? स्वतन्त्रोपस्थितस्थाणुमेदाग्रहो न भवतीत्यत आह-अभावेति (९४३)। तथा च न स्थाणुरित्यत्र स्थाणोरभावविशेषणत्वेनैवोपस्थितत्वात् , न तु स्वातत्र्येणोपस्थितिरित्यर्थः ।
विपक्षे बाधकमाह-अन्यथेति (९४-४) । यदि स्थाणुपुरुषयोः स्वतन्त्रोपस्थितेष्टभेदाग्रहो वर्त्तते तदा नैयायिकमतेऽपि पुरुष एवायमित्यारोपात् पूर्वम् उभयग्रहयोर्विद्यमानत्वात् पुरुष एवायमित्यारोपकाले संशयः स्यादित्यर्थः । आशङ्कतेनन्वयमिति (९४-५)। असंसर्गाग्रहाद् (९४-५) इत्युपलक्षणं रजतभेदाग्रहादित्यपि द्रष्टव्यं, तथा च रजताभेदाग्रहात् रजतत्वासंसर्गाग्रहाद्वा यदि रजते प्रवृत्तिस्तदा वह्नयर्थिनो वह्निमदभेदाग्रहात् वयसंसर्गाग्रहाद्वा वह्निमति प्रवृत्तिर्भविष्यति । वह्नयर्थिनो वह्निमति प्रवृत्तौ धूलीपटले धूमज्ञानापेक्षैव नास्ति । सा अपेक्षा तु वर्तते, सा न स्यात् ।
अत्र शङ्कते-उपस्थितेति (९४-६)। तथा च उपस्थितभेदाग्रहात् प्रवृत्तिः । धूमात्त वरुपस्थिति यते पश्चादपस्थितवह्निमदभेदाग्रहात वहनौ वार्थिनः प्रवत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org