________________
अन्यथाख्यातिवादटिप्पनम् ।
२०३
रिति । सेति (९४ - ६ ) । सा घूमोपस्थितिरुपस्थितवह्निमद्भेदाग्रहार्थम् । अत्रापि वह्न्यसंसर्गाग्रह इत्युपलक्षणं वह्निमभेदाग्रहोऽपि द्रष्टव्यः । पूर्वं धूमाद्वह्नयुपस्थितिर्जायते पश्चादुपस्थिते वह्नौ उपस्थित वह्निमदभेदाग्रहात् वह्निमति प्रवृत्तिरिदं च प्रवृत्तिपक्षे । यदा वह्नावेव प्रवृत्तिस्तदा वह्नित्वा संसर्गाग्रहादिति द्रष्टव्यम् ।
दूषयति- पूर्वमपीति (९४-७) । यदि वह्न्युपस्थित्यर्थे धूमोपस्थितिस्तदा धूलीपटले धूमप्रतिसन्धानात् पूर्वमपि वहचुपस्थितिर्वर्त्तत एव । उपसंहरति- तस्मादिति (९४-७ ) | यदि धूमग्रहस्यापेक्षा वर्त्तते चेत् वह्नयर्थिप्रवृत्तौ तदा निर्वह्नौ पर्वते वह्न्यर्थिप्रवृत्त्यनुरोधेन वह्नेर्भ्रमरूपानुमितिरेव स्वीकर्त्तव्येत्यर्थः । कुतो ! वह्नेर्भ्रमरूपानुमित्यर्थं धूमज्ञानस्योपयोगो वर्त्तते निर्वह्नौ पर्वते भेदाग्रहे तु धूमज्ञानस्योपयोगो नास्त्येव ।
दूषणान्तरमाह- किचेति ( ९४ - ९) । यदि अन्यथाख्यातिरूपं ज्ञानं नास्ति तदा निर्वौ पर्वते धूमज्ञानानन्तरं वयर्थिप्रवृत्तिर्जायते । सा च प्रवृत्तिः वह्निमनुमिनोमीति अनुव्यवसायानन्तरं जायते । यदि निर्वह्नौ पर्वते वह्ने भ्रमरूपा चेदनुमितिर्नास्ति तदा सोऽनुव्यवसायो न स्यात् । अनुव्यवसाय इत्युक्तौ परमतानुरोधात् व्यवहार इत्युक्तम् । त (त्व) त्पक्ष ( ९४ - २ ) इति प्राभाकरपक्षे इत्यर्थः ।
ननु प्रत्यक्षोपस्थिते पर्वते विशेष्ये वह्नेरसंसर्गाग्रहादेव वह्निमद्भेदाग्रहादेव वा अयं वह्निमनुमिनोमीति व्यवहारो वह्निवमभेदाग्रहादेव भविष्यति इत्यत आहप्रत्यक्ष ( ९४ - ९) इति । तथा च प्रत्यक्षोपस्थिते विशेष्ये योऽसंसर्गाग्रहेण व्यवहारः स तु साक्षात्करोमीत्येव जायते न तु अनुमिनामीति । तत्र दृष्टान्तमाह-पीत(९४ - १०) इति । तथा च पीतः शङ्ख इत्यत्र प्रत्यक्षोपस्थिते शङ्खे पीतत्वा संसर्गाग्रहेण पीतं शङ्खं साक्षात्करोमीत्येवं व्यवहारो जायते । तथा निर्वह्नौ पर्वते वरसंसर्गाहेण वह्निं साक्षात्करोमीत्येव स्यात् न तु वह्निमनुमिनोमीत्यर्थः । त्वयेति ( ९४ - ११) प्राभाकरेण ।
प्राभाकरः समाधत्ते - एतदपीति (९४ - ११) । पूर्वमिति (९४ - ११) । यद्यपि धूमज्ञानात् पूर्वं वह्न्यसंसर्गामहो वर्त्तते तथापि तत्र निर्वह्नित्वस्याप्यसंसर्गाग्रहो वर्त्तते । यतो धूमज्ञानात् पूर्वं वह्नेरप्यभावज्ञानं नास्ति । अथ च निर्वह्नित्वस्याप्यभावज्ञानं नास्ति । धूमज्ञानानन्तरं तु यः वह्नेरसंसर्गाग्रहः स स्वतन्त्रोपस्थितेष्टवह्नय
१. यदि is redundant here, but as I have noted already, this may be a stylistic peculiarity of गुणरत्न |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org