________________
न्यायसिद्धान्तदीपे
संसर्गाग्रहः, तस्मादेव प्रवृत्तिः । ननु बाध्पे धूमज्ञानात् पूर्वं वहेरसंसर्गाग्रहमात्रात् वयर्थी निष्कम्पं प्रवर्त्तते । तदसंसर्गाग्रहादिति (९४ - १४) । धूमज्ञानानन्तरं या स्वतन्त्रोपस्थितेष्टवह्निस्तदसंसर्गाग्रहादित्यर्थः । तर्हि पीतः शङ्ख इतिवत् साक्षात्करोमीति व्यवहारः स्यान्न तु अनुमिनीमीत्यत आह- अनुमिनोमीति (९४ - १४) । तथा च यत्र प्रत्यक्षोपस्थिते विशेष्ये विशेषणस्यासंसर्गाग्रहादप्रवृत्तिस्तत्र साक्षात्करोति व्यवहारः, यत्र च प्रत्यक्षोपस्थिते विशेष्ये* व्याप्यस्यासंसर्गाग्रहाद् व्यापकस्यासंसर्गाग्रहस्तस्मात् प्रवृत्तिस्तत्रानुमिनोमीति व्यवहारः । भवतां नैयायिकानां यद् व्याप्यज्ञानं तत्स्थानाभिषिक्तोऽस्माकं व्याप्यासंसर्गाग्रहः । अतो निर्वह्नौ पर्वते वह्निव्याप्यधूमज्ञानाभिषिक्तोऽस्माकं वह्निव्याप्यधूमासंसर्गाग्रह एव भवतां वह्निरूपव्यपिकानुमितिस्थानाभिषिकोऽस्माकं प्राभाकराणां वह्निरूपव्यापका संसर्गाग्रह एवेति । तस्माद्वह्नयसंसर्गाग्रहादेव वह्निमनुमिनोमीति व्यवहारः, वह्नचर्थिनो निष्कम्पा प्रवृत्तिरेतदेवाह-लिङ्गेति (९४-१५) । उपस्थितं यल्लिङ्गं धूमादि तस्यासंसर्गाग्रहाद्यो व्यापकस्य वह्नेरसंसर्गाग्रह इत्यर्थः । निबन्धनमिति (९४ - १५ ) । निष्कम्पप्रवृत्तिरनुमिनोमोति व्यवहारश्च तयोर्द्वयोर्निमित्तमित्यर्थः । उपसंहरति - तस्मादिति (९४ - १६) । एताबतेति (९४ - १६) । अनुमिनोतीति व्यवहारानुरोधेन अन्यथाख्यातिर्न सिद्धेत्यर्थः ।
अन्यथाख्यातिपक्षे दोषान्तरमाह - किठचेति (९४ - १७) । अनयोरिति (९४ - १८) । अनयोः शुक्तिरजतयोः । तादात्म्यमभेदः । सामानाधिकरण्यमिति (९४-१८) एकाधिकरण्यम् । रजतत्वेनेति ( ९४ - १८) । रजतत्वेन प्रकारेण शुतिर्वा भासते प्रथमं दूषयति-समूहेति (९४ - १९) । यदि भ्रमरूपज्ञानस्य शुक्तिरजते एव विषयस्तर्हि शुक्तिरजते एतादृशं समूहालम्बनमपि भ्रमः स्यात्, अस्मिन् समूहालम्बने शुक्तिः रजतं द्वयमपि विषयो भवत्येव । असदिति (९४२०) । तथा च शुक्तिरजतयोस्तादात्म्यमभेदः स चासन्नेव सोऽभेदश्चेदमन्नेव स्वपुष्पादिवद् भासते तदा असतः पदार्थस्य भानमसत्ख्यातिः स्यात् । अत एवेति । (९४ - २०) यथा शुक्तिरजतयोस्तादात्म्यमसदेव, तथा शुक्तित्वरजतत्वयोः सामानाधिकरण्यमप्यसदेव, कुतः ! शुक्तित्वरजतत्वयोः विरुद्धत्वात् । तृतीयेति (९४ - २०)। रजतत्वेन प्रकारेणेति तृतीयार्थ इत्यर्थः । तथा च तृतीयार्थी यदि रजतत्वसम्बन्धमात्रं तर्हि रजतत्वसम्बन्धः शुक्तिश्च इदं द्वयं भ्रमविषयः तर्हि शुक्तिरजतत्वं सम्बन्ध इति समूहालम्बनेऽपि द्वयं विषयो भवत्येव । यदि शुक्तिरजतयोरभेदरूपस्तृतीयार्थस्तदा पूर्वोक्ता असत्ख्यातिः स्यात् ।
१. प्रवृत्तिः । २. शङ्ख । ३. पीतत्वस्य । ४. पर्वते । ५. वह्नेरसंसर्गाग्रहः ।
२०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org