________________
अन्यथाख्यातिवादटिप्पनम् ।
२०५ दूषणान्तरमाह-किच्चेति (९४-२२)। तर्था च दोषाणां शुक्तित्वेन रूपेण शुक्तिप्रमाप्रतिबन्धकत्वम् । ननु रजतत्वेन प्रकारेण शुक्र्यद् विपरोतज्ञानं तज्जन हत्य यदि दोषाणां विपरीतकार्यजनकत्वं तदा बाधकमाह-कथमन्यथेति (९४-२३) । यथा भ्र(भृ)ष्टात् कुटजबोजात् कुटजाङ्कुरस्य प्रतिबन्धो जायते न तु न्यग्रोधा?. रस्योत्पत्तिर्जायते, विपरीतकार्य न जायते ।
__ अत्र शङ्कते नैयायिकः-नन्विति (९५-१)। तथा च यदि अन्यथाख्या. तिर्नास्ति तर्हि इदं रजतमिति ज्ञानं बाध्यम् । नेदं रजतमिति ज्ञानं बाधकम् । अनयोर्बाध्यबाधक भावव्यवस्था न स्यात् । एतदेव विकल्प्य दूषयति-किमिति (९५-१)। तथा च नेदं रजतमिति ज्ञानेन इदमंशो वा बाध्यते रजतांशो वा ज्ञानमात्रं वा । तत्र प्रथमं दूषयति-इदमिति (९५-१) । न हि नेदं रजतमिति ज्ञानेन पुरोवर्तिनि इदन्तांशो बाध्यते अपहियते वा । इदन्त्वस्य पुरोवर्तिनि बाध्यबाधकज्ञानकाले तथैव सत्त्वात् । द्वितीयं दूषयति-नेतर इति (९५-२)। रजतमपि न बाध्यते क्वचिद्रजताश्रये बाध्यबाधकज्ञानकाले तथैव सत्त्वात् । नापि ज्ञानम् । तृतीयपक्षः अनुक्तोऽपि पक्षो बोध्यः । जातस्य उत्पन्नस्य ज्ञानस्य नेदं रजतमिति ज्ञानेन विनाशः क्रियते । विनाशस्तु विरोधिगुणप्रादुर्भावादेव भविष्यति न तु बाधकज्ञानापेक्षा । नेदं रजतमिति ज्ञानस्यापेक्षा नास्ति ।
- अतोऽन्यथाख्याति विना नेदं रजतमिति ज्ञानस्य बाधकत्वं न स्यादित्युपसंहरति-तस्मादिति (९५-३)। तथा च शुक्तो रजतत्वं ज्ञानम् इदं रजतमिति बाध्य ज्ञानेन विषयीकृतं तदेव रजतत्वं नेदं रजतमिति ज्ञानेन शुक्तौ बाध्यते । अथवा रजते विद्यमानो रजताभेदः इदं रजतमिति ज्ञानेन शुक्तो विषयोक्रियते । स एव रजताभेदः नेदं रजतमिति ज्ञानेन शुक्तौ बाध्यते । बाधो नाम तदभावबोधनम् ।
एतावता कथमन्यथाख्यातिसिद्धिरित्यत आह-उभयथेति (९५-४)। तथा च नेदं रजतमिति ज्ञानेन इदं रजतमिति ज्ञानस्य यो विषयः शुक्तौ रजतत्वं रजताभेदो वा स चेद् बाध्यते तदा इदं रजतमिति ज्ञानं शुक्तिविशेष्यकं रजतत्वप्रकारकं जातम् , अयमेव च भ्रमः ।
समाधत्ते प्राभाकरः। भेदाग्रहेति (९५-५) । नेदं रजतमिति ज्ञानेन अभेदज्ञानं न बाध्यते किन्तु शुको रजतभेदाग्रहेण प्रसञ्जितो नाम कृतो यो रजतं रजतमित्यभेदव्यवहारः स एव बाध्यते ।
१. चाकचक्यादीनां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org