Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 236
________________ अन्यथाण्यातिवादटिप्पनम् । अनुमितिरपि उच्छिघेत । कुतः ? इदमपि बहिर्विशेष्यकं मानसमेव ज्ञानं भविष्यतीत्यनुमितेरुच्छेदः स्यात् । स्वपक्षे न कोऽपि दोष इत्याह-अग्रहेति (९३-५)। शुक्ती रजतत्वाग्रहपक्षे । अस्येति (९३-५) । असन्निकृष्टभानादिरूपदोषस्याभावादित्यर्थः । तस्मात् शुक्को रजतत्वाग्रहपक्ष एव समीचीनः । अत्राशङ्कते नैयायिकः-नन्विति (९३-६)। संवादिविसंवादिप्रवृत्ति दाग्रहादेव भवतीतीदमनुपपन्नम् । यथेति (९३-६)। उपस्थितं यदिष्टं तेन सह यो भेदस्तस्याग्रहो नाम ज्ञानाभावस्तस्य प्रवर्तकत्वं वक्तव्यम् । तथेति (९३-७)। तथा तेनैव प्रकारेण उपस्थितं यदनिष्टं तेन सह यो भेदस्तस्याग्रहो नाम ज्ञानाभावस्तस्य निवर्तकत्वं वक्तव्यम् । तथा चोपस्थितेष्टानिष्टभेदाग्रहयोरेव प्रवृत्तिनिवृत्तिजनकत्वं वक्तव्यं, न तु भेदाग्रहमात्रस्य । इष्टभेदाग्रहस्येति (९३-७) । इष्टभेदाग्रहमात्रस्येत्यर्थः । विपक्षे बाधकमाह-तथात्वे (९३-८) इति । इष्टभेदाग्रहमात्रस्य प्रवर्तकत्वे रजत एव नेदं रजतमिति ज्ञानं जातं तत्र निवृत्तिरेव जायते न तु प्रवृत्तिः । तत्र प्रवृत्तिः स्यात् । तत्र सत्यरजतस्थले नेदं रजतमिति ज्ञानं जायते तत्र इष्टभेदाग्रहो वा भेदाग्रहो वा । आधे आह-तत्रेति (९३-९) । तथा च इष्टभेदाग्रहस्य सत्त्वात् नेदं रजतमित्यादी प्रवृत्तिः स्यात् । अन्त्ये त्वाह-भावे वेति(९३-९) । यत्र रजत एव नेदं रजतमिति भेदहस्तदाऽन्यथाख्यातिः स्यात् । ततः किमित्यत आह-तथा चेति (९३-९) । शुक्तावेव इदं रजतं न शुक्तिरिति ज्ञानात् युगपत् प्रवृत्तिनिवृत्त्यापत्तिः । कुतः ? तत्र शुक्तो उपस्थितस्येष्टस्य भेदाग्रहो वर्तते इतिकृत्वा प्रवृत्तिः स्यात् , उपस्थितस्यानिष्टस्य भेदाग्रहोऽपि वर्तते इतिकृत्वा निवृत्तिः स्यात् यदि तत्र शुक्तौ नेदं रजतमिति ज्ञानम् अनिष्टं भेदग्रहस्तदाऽन्यथाख्यात्यापत्तिः यतोऽनिष्टेऽनिष्ट भेदाभावात् । अनिष्टभेदाभाववति अनिष्टभेदस्य ग्रहोऽन्यथाख्यातिः । शुक्तौ अनिष्टभेदग्रहमाशङ्कते-न चेति (९३-११) । शुक्तो नेयं शुक्तिरित्ययमनिष्टभेदग्रह एव न तु अनिष्टभेदाग्रहः । दूषणमाहअन्यथेति (९३-११) । तथा च शुक्तावनिष्टे एव यदि अनिष्टभेदग्रहस्तदाऽन्यथाख्यातिः स्यात् । अत्राशङ्कते-न चेति (९३-१२) । स्वातन्त्र्येणोपस्थितं यदिष्टं तस्य भेदाप्रहः इष्टे प्रवर्तकस्तथा स्वातन्त्र्येणोपस्थितं यदनिष्टं तस्य भेदाग्रहो निवर्तकः । तथा च इष्टे एव यत्र नेदं रजतमिति ज्ञानं तत्र इष्टभेदाग्रहो यद्यपि वर्तते तथापि १. प्रवृत्तिस्तु म जायते । २. दोषात् । ३. इष्टभेदग्रहेऽन्यथाख्यातिः । 'इयं शुक्तिरेव न रजतम्' अयं भेदग्रहः, इदं भेदग्रहरूपं ज्ञानं नास्ति स भेदाग्रहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270