Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 239
________________ २०२ न्यायसिद्धान्तदीपे त्याह-संशयेति (९३-२२)। संशयमेव विवृणोति-एकस्मिन्निति (९३-२३)। तथा च एकस्मिन् धर्मिणि परस्परविरुद्धयोः पदार्थयोर्यो भेदाग्रहः स एव तव प्राभाकरस्य संशयः। अत्राशङ्कते प्राभाकरो-न चेति (९३-२३)। तथा च सति स्थाणो स्थाणुभेदाग्रहश्चेत् तदा संशयः स्यात् , अत्र स्थाणुभेदाग्रहस्तु नास्ति किन्तु स्थाणुभेदग्रह एव । दूषयति-विपरीतेति (९३-२४) । तथा च यदि स्थाणौ स्थाणुभेदग्रहस्तदाऽन्यथाख्यातिः स्यात् । उपसंहरति-तस्मादिति (९३-२४) । विपरीता ख्यातिरन्यथाख्यातिः । __ प्राभाकरः समाधत्ते-संशयानन्तरमिति (९४-१)। स्थाणौ पुरुष एवायमिति व्यवहारः । सोऽपि पुरुषस्यान्यथाख्यातिरूपादारोपान्न, किन्तु पुरुषभेदाग्रहादेव । न चेति (९४-२) । तथा च पुरुष एवायमिति व्यवहारकालेऽपि परस्परविरुद्धोभयभेदाग्रहस्य विद्यमानत्वात् पूर्ववत् संशयः स्यादित्यर्थः । समाधत्ते-स्वतन्त्रेति (९४-२)। तथा चोभयविरुद्धभेदाग्रहमात्रं न संशयः, किन्तु स्वतन्त्रोपस्थितविरुद्धोभयभेदाग्रह एव संशयः । ततः किम् ? इत्यत आह-पुरुष एवेति (९४-३)। तथा च यत्र स्थाणी पुरुष एवायं न स्थाणुरिति व्यवहारस्तत्र यद्यपि स्थाणुभेदाग्रहो वर्तते तथापि स स्वातन्त्र्येण स्थाणुभेदाग्रहो भवति स्वतन्त्रोपस्थितयोविरुद्धयोर्भेदाग्रहः संशयः । कुतः ? स्वतन्त्रोपस्थितस्थाणुमेदाग्रहो न भवतीत्यत आह-अभावेति (९४३)। तथा च न स्थाणुरित्यत्र स्थाणोरभावविशेषणत्वेनैवोपस्थितत्वात् , न तु स्वातत्र्येणोपस्थितिरित्यर्थः । विपक्षे बाधकमाह-अन्यथेति (९४-४) । यदि स्थाणुपुरुषयोः स्वतन्त्रोपस्थितेष्टभेदाग्रहो वर्त्तते तदा नैयायिकमतेऽपि पुरुष एवायमित्यारोपात् पूर्वम् उभयग्रहयोर्विद्यमानत्वात् पुरुष एवायमित्यारोपकाले संशयः स्यादित्यर्थः । आशङ्कतेनन्वयमिति (९४-५)। असंसर्गाग्रहाद् (९४-५) इत्युपलक्षणं रजतभेदाग्रहादित्यपि द्रष्टव्यं, तथा च रजताभेदाग्रहात् रजतत्वासंसर्गाग्रहाद्वा यदि रजते प्रवृत्तिस्तदा वह्नयर्थिनो वह्निमदभेदाग्रहात् वयसंसर्गाग्रहाद्वा वह्निमति प्रवृत्तिर्भविष्यति । वह्नयर्थिनो वह्निमति प्रवृत्तौ धूलीपटले धूमज्ञानापेक्षैव नास्ति । सा अपेक्षा तु वर्तते, सा न स्यात् । अत्र शङ्कते-उपस्थितेति (९४-६)। तथा च उपस्थितभेदाग्रहात् प्रवृत्तिः । धूमात्त वरुपस्थिति यते पश्चादपस्थितवह्निमदभेदाग्रहात वहनौ वार्थिनः प्रवत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270