Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 234
________________ अन्यथाख्यातिवादटिप्पनम् । १९७ ननु रजताभेदस्य रजतत्वसंसर्गस्य कारणभानसामग्री नास्तीत्यत आहशुक्ताविति(९२-१५) । ननु रजताभेदस्य रजतत्वसंसर्गस्य वा भानसामग्रयभानं चेन्नास्ति तदा शुक्ती रूप्यतया ज्ञातेति रजताभेदविषयकरजतत्वसंसर्गविषयकानुन्यवसायस्य का गतिरित्यत आह-शुक्तीति (९२-१६)। शुक्ती रूप्यतया ज्ञातेत्ययमनुव्यवसायो न भवति किन्तु व्यवहार एव । सोऽयं व्यवहारः व्यवहारकारणीभूतो यो रजतभेदाग्रहः रजतत्वासंसर्गाप्रहश्च तद्विषयक एव । न तु रजताभेदरजतत्वसंसर्गविषयक एव । प्राचीनेति(९२-१६) । प्राचीनो नाम व्यवहारकारणीभूतः । भेदाग्रहेति (९२-१६) भेदग्रहाभावः । कारणबाधमेव विवृणोतिरजतेति (९२-१७) । सन्निकर्षः (९२-१७) संयोगः । तव्यतिरेकेणेति (९२-१७) रजतसंयोगव्यतिरेकेणेत्यर्थः । तदुत्पत्तीति(९२-१७)। रजता भेदग्रहस्य रजतत्वसंसर्गग्रस्य वा उत्पत्तिसम्भावना नाम उत्पत्तिसंशयः कथं शुक्तौ । अत्राशङ्कते-न चेति(९२-१८) । न हि रजतसाक्षात्कारे रजतसंयोगः कारणं, किन्तु सर्वत्र साक्षात्कारमात्रे विशेष्येन्द्रियसन्निकर्षः कारणम् । तथा च रज तसाक्षात्कारेऽपि विशेष्यसन्निकर्ष एव कारणं न तु रजतसंयोगः । विसंवादिप्रवृत्तिस्थले विशेष्येन्द्रियसन्निकर्षस्य विद्यमानत्वात् रजतसाक्षात्कारो भविष्यत्येव । एतदेवाह-विशेष(९२-१८)इति । यद्यपि साक्षात्कारसामान्ये विशेष्येन्द्रियसन्निकर्षः कारणं तथापि रजतरूपविशेष्यसाक्षात्कारे रजतसंयोगः कारणं भविष्यति तथापि सामान्यसामग्रीत एव रजतसाक्षात्कारोत्पत्तौ रजतसंयोगत्वेन कारणत्वे प्रमाणाभावात् । तथा च रजतसंयोगाभावेऽपि विशेष्येन्द्रियसन्निकर्षमात्रात् शुक्तो रजतसाक्षःस्कारो भ्रमरूपो भविष्यतीत्यर्थः । तथा च साक्षात्कारे विशेष्येन्द्रिय सन्निकर्षः कारणं न तु रजतसंयोगो विशेष्येन्द्रियरूपः कारणम् । दूषयति-क्वचिदिति(९२-२०)। तथा च साक्षात्कारमात्रे विशेष्येन्द्रियसन्निकर्षः कारणम् एतदपि नास्ति । कुतः विशेष्येन्द्रियसन्निकर्षाभावेऽपि साक्षात्काररूपभ्रमस्य जायमानत्वात् इति त्वया नैयायिकेनाङ्गीकारात् । एतदेव विवृणोति-साक्षादिति (९२-२१) । यत्र प्रथमतः ऊबै वस्तु दूराद् दृश्यते तत्र सामान्यत उच्चवस्तुदर्शनानन्तरं ततोऽन्यत्र गत्वा तदुच्चवस्तु स्मृत्वा तस्मिन् वस्तुनि स्थाणुर्वा पुरुषो वेति संशयो जायते तत्र विशेष्यं यदूर्व वस्तु तत्सन्निकर्षाभावेऽपि तस्य संशयस्य जायमानत्वात् । अत्राशङ्कते-न चेति (९२-२३) । उच्चवस्तु परित्यक्त्वा [त्यज्य] १. नेदं रजतम् इति ज्ञानं यदा नास्ति तदा रजतभेदाग्रहः रजताभेदो नाम रजतम् । 2. Is it another example of Jaina Sanskrit ? See 3qrafica in the begining of the टिप्पनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270