Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 222
________________ अपूर्ववादटिप्पनम् । तथा च कल्पनाया अविशेषे कालपरम्परैव व्यापारोऽस्तु । ननु कालस्य सर्वसाधारणत्वात् स न व्यापारः सम्भवतीत्यत आह-अस्त्विति(९०-१३) । तथा च याग एव सूक्ष्मरूपेण फलपर्यन्तं तिष्ठतीति न व्यापारान्तरस्याप्यपेक्षा । क्रियाशब्देना। यागक्रिया । सिद्धान्तमाह-नैयायिकः-न तावदिति(९०-१३) । ध्वंसव्यापारवत्त्वं तु पूर्वमेव स्वण्डितम् । यदि यागक्रियायाः शरीरं व्यापारः तदा प्रलयानन्तरं यत् फलं तन्न स्यात् । प्रलये सर्वशरीराणां नाशात् । तथा च इदानी क्रियमाणस्य प्रलयानन्तरं यत् फलं तन्न स्यात् । तस्य यागव्यापारस्य शरीरस्य प्रलये नष्टत्वात् । ननु इदानी क्रियमाणात् यागात् प्रलयानन्तरं फलं नास्त्येव इत्यत आह-प्रलयानन्तरमिति(९०-१४) । तथा च प्रलयानन्तरमपि इदानी क्रियमाणात् यागात् स्वर्गादिरूपं फलं प्रमाणसिद्धं भवति । बलिरिन्द्रो भविष्यतीत्यादिना प्रलयानन्तरमपि स्वर्गा भविष्यति अत्राशङ्कते-प्रलये(९०-१५)इति । तथा च यागजन्यं स्वर्गोपभोगयोग्य तादृशं शरीरं यत् प्रलयेऽपि न नश्यते इत्यर्थः । दूषयति । धर्मीति(९०-१५) । तथा च येन प्रमाणेन प्रलयः सिद्धः तेन प्रमाणेन सकलकार्यद्रव्यविनाशविशिष्ट एवं सिद्धः । तथा च प्रलये सर्वेषां कार्यद्रव्याणां विनाशात् तन्मध्ये शरीरस्यापि विनाशः। कुतः ? शरीरस्यापि कार्यद्रव्यरूपत्वेन तस्यापि नाशात् कथं व्यापारत्वं शरीरस्य । दूषणान्तरमाह-किच्चेति(९०-१७) । तथाच शरीरं प्रति यागस्य कथं कारणत्वम् ? । साक्षाद्यागजन्यत्वं शरीरस्य न सम्भवति, किश्चिन्मध्ये व्यापारो वक्तव्यः, तथा च सः को व्यापार इत्यत आह -अत(९०-१७)इति । शरीरारम्भकपरमाणुक्रियाद्वारा शरीररस्य यागजन्यत्वं वक्तव्यं, न च सा परमाणुक्रिया यागजन्या इत्याहतस्याश्चेति(९० -१८) । तस्याः परमाणुक्रियायाः यागजन्यत्वं न सम्भवति । कुत इत्यत आह-व्यभिचारादिति(९०-१८) । यागव्यतिरेकेणापि परमाणुक्रियायाः नोदनाभिघातात् जायमानत्वात् । अत्राशङ्कते-न चेति (९०-१८) तथा च नोदनाभिघातजन्या परमाणुक्रिया विलक्षणा, यागक्रियाजन्या परमाणुक्रिया सा विल. क्षणा । तथा च विलक्षणां परमाणुक्रियां प्रति यागो न व्यभिचारीति । परमाणुक्रियातज्जन्यशरीरद्वारा स्वर्ग प्रति यागस्य कारणत्वं स्यादेव । ___ दूषयति-तद्विशेषेति(९०-२०)। अक्लृप्तयागजन्यपरमाणुक्रियायां स्वर्गोपभोगजनकशरीरारम्भकवैजात्यकल्पने कल्पनागौरवप्रसङ्ग इत्यर्थः । नोदनाभिघातजन्यपरमाणुक्रियातः यागजन्यपरमाणुक्रियायाः वैजात्यम् । विपक्षे बाधकमाह-अक्लुप्ते २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270