Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 225
________________ अन्यथाख्यातिवादटिप्पनम् । अन्यथाख्याती प्राचीनविप्रतिपत्तिनिराकरणपूर्वकं विप्रतिपत्तिं रचयितुमुपक्रममाह-अन्यथाख्याताविति(९१-१) । ज्ञानस्य व्यधिकरणप्रकारकत्वे । सम्प्रदायेति(९१-१) । अत्रायमाशयः । नैयायिकमते इदं रजतमित्यत्र प्रथमतः शुक्को चाकचिक्यं दृष्ट्वा पुरोवत्तिशुक्तिरजतयोः नेदं रजतमिति मेदग्रहो नास्ति तदानीं चाकचिक्यवशात् स्मृतं यद्रजतं तवृत्ति यद्रजतत्वं तेन सह पुरोवत्तिशुक्तेः शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं जायते, इदमेव यदरजतविशेष्यकं रजतत्वप्रकारकं ज्ञानं स एव भ्रमः । सैव चाऽन्थाख्यातिः । प्राभाकरमते तु चाकचिक्यवशात् स्मृतं यद्रजतं तेन सह भेदाग्रहः १ पुरोवत्तिं ज्ञानं २ रजतस्मरणं ३ इति त्रयं प्रभाकरमते स एव भ्रमः । अत एव नैयायिकानां या भ्रमसामग्री स्मृतरजतभेदाग्रहः पुरोवर्तिज्ञानम् इदमेव शुक्तिरजतयोर्मेदाग्रहसहितं यत् पुरोवर्तिज्ञानं रजतस्मरणमिति ज्ञानद्वयम् स एव भ्रमः प्राभाकरमते । अत एव नेदं रजतमिति विपरीतदर्शनकाले रजतस्मरणं पुरोवर्तिज्ञानम् इदं ज्ञानद्वयं यद्यपि तिष्ठति तथाऽपि नैयायिकानां मते भ्रमो नोत्पद्यते । प्राभाकराणां तु नैयायिकाभिमता या भ्रमसामग्री तपो यो भ्रमः सोऽपि नास्ति, शुक्तिरजतयोर्भदाग्रहस्याभावात् । ज्ञानद्वयवद् भेदग्रहोऽस्ति भेदाग्रहस्यापि भ्रमसामग्रीत्वात् । अत एव सुषुप्तौ भेदाग्रहस्य विद्यमानत्वेऽपि पुरोवर्तिज्ञान-रजतस्मरणरूपा या भ्रमसामग्रो सैव नास्तीति सुषु. प्तो भ्रमो नोत्पद्यते नैयायिकमते । प्राभाकराणां तु नैयायिकमते या भ्रमसामग्री स एव भ्रमः । सा भ्रमसामग्री तु ज्ञानद्वयात्मिका पुरोवर्तिज्ञानं १ रजतस्मरण च २ तदात्मिका भ्रमसामग्री सैव नास्ति । तथा त्रयं मिलित्वा भ्रमसामग्री भेदाग्रहः १ पुरोवर्तिज्ञानं २ रजतस्मरणं३[इति त्रयं]मिलित्वा भेदसामग्री भवति । तथा च नैयायिकमते प्रथमतः पुरोवर्तिज्ञानं१ तदनन्तरं पुरोवर्तिनि यच्चाकचिक्यं दृष्टं तस्माद्यद्रजत स्मरणं जायते तद् द्वितीयं २ तयोः पुरोवर्तिस्मृतरजतयोर्यों भेदग्रहाभावलक्षणो भेदाग्रहः ३ इति त्रयं भ्रमसामग्रो तया सामय्या शुक्तिविशेष्यकर जतत्वप्रकार१. आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरेव च । तथाऽनिर्वचनख्यातिरित्याहुः ख्यातिपञ्चकम् ॥१॥ २. भेदग्रहो यत्रास्ति नेदं रजतमिति असंसर्गग्रहो यत्रास्ति रजतत्वं नास्तीत्येतादृशे ज्ञाने भ्रमो नास्ति उक्तवैपरीत्ये अमोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270