Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 226
________________ अन्यथाख्यातिवाद टिप्पनम् । १८९ कज्ञानलक्षणो भ्रमो जायते । नैयायिकमते व्यधिकरणप्रकारकज्ञानलक्षणो भ्रमः । प्राभाकराणां तु अनया सामग्रया शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भिन्नं जायते इदं नास्ति प्रमाणाभावात्, किन्तु नैयायिकाभिमतत्रितयरूपा या भ्रम सामग्री स एव भ्रमः । न तु सामग्रीजन्यमतिरिक्तं शुक्तिविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानमन्यथाख्यातिरूपं भ्रमः । अरजतमिति (९१ - १) । तथा च अरजतस्य शुक्त्यादेर्यदा रजतत्वप्रकारक - ज्ञानविषयता आगता तदेव शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं भ्रमः इति नैया - यिकानां विधिकोटिः । यदा रजतस्य शुक्त्यादेः रजतत्वप्रकारिका ज्ञानविषयता नास्ति तदानीं शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं व्यधिकरणप्रकारकं स भ्रमो नास्तीति । न वेति (९१ - २) प्राभाकराणां कोटिः । विप्रतिपत्त्यन्तरमाह-रजत [ ज्ञान ] मिति (९१ - २ ) । रजतत्वप्रकारकं ज्ञानम् अरजतविशेष्यकम् । अत्रापि अरजतविशेष्यकं रजतत्वप्रकारकं ज्ञानं स एव भ्रमः पूर्ववदेव विधिकोटिर्नैयायिकानां निषेधकोटिः प्राभाकराणाम् । विषयतापक्षमधिकृत्याह - अरजतेति (९१ - २ ) । ऐतन्मते अरजतविशेष्यकरजतत्वप्रकारकज्ञानं न भ्रमः किन्तु अरजतविशेष्यकरजतत्वप्रकारकज्ञानविषयताक भ्रमः । तदेवाह - रजतत्व प्रकार के ति (९१ - २ ) । तथा चारजतस्य शुक्त्यादेः रजतत्वप्रकारकविषयताश्रयत्वमागतं स एव भ्रमः । न वेति ( ९१ - ३) पूर्ववत् । विशेष्यिकां विप्रतिपत्तिमाह-रजतत्वेति (९१ - ३ ) । अत्रापि रजतत्वप्रकारिका विषयता चेदरजतनिष्ठा आगता तदा अरजतविशेष्यकं रजतत्वप्रकारकविषयताज्ञानमागतमित्यन्यथाख्यातिसिद्धिः । ज्ञानपक्षिकां विप्रतिपत्तिमाह - ज्ञानमिति (९१ - ४) । स्वविषयतेति (९१-४) । विशेष्यनिष्ठा विषयतेत्यर्थः । अत एव शुक्तिविषयताक यद्रजतत्वप्रकारकं ज्ञानं स एव भ्रमः । इदमिति (९१ - ४) । पुरोवर्त्तिनि यदिदं ज्ञानं तद्विशेष्यनिष्ठा या विषयता तथा व्यधिकरणो यः प्रकाशे रजतत्वादिस्तेनावच्छिन्ना या विषयता सा विद्यते यस्य तत्कत्वम् । तथा च पुरोवर्त्तिज्ञानस्य पुरोवर्त्तिविषयताव्यधिकरणप्रकारावच्छिन्न-विषयताकत्वं स एव भ्रमः । १. नैयायिकैकदेशिमते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270