Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 229
________________ १९२ न्यायसिद्धान्तदीपे धूमरूपव्याप्यवति पर्वते धूमव्यापकवह्निसत्त्वनियमात् । एवं प्रवृत्तिकारणत्वे तादृशज्ञानत्वव्याप्यत्वं चेदागतं तदा व्याप्यसत्त्वे व्यापकावश्यम्भावनियमात् । अत्र प्रवृत्तिकारणत्वं व्याप्यं प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं व्यापकम् । यत्र प्रवृत्तिकारणत्वं तत्र तत्र तादृशज्ञानत्वम् । एवं सति विसंवा देप्रवृत्तिहेतुभूते ज्ञाने तादृशप्रवृत्तिकारणत्वं वर्तते तत्र चेद् व्याप्यं तिष्ठति तदा तस्मिन् ज्ञाने तादृशस्य कारणत्वस्य व्यापकं तादृशज्ञानत्वं तदप्यागतं व्यापकम् । तथा च प्रवृत्तिकारणीभूते पुरोवर्तिज्ञाने शुक्तिविशेष्यकर जतत्वप्रकारावच्छिन्ना या विषयता तत्प्रतियोगित्वं ज्ञानत्व चेदागतं तदा शुक्तिविशेष्यकरजतत्वप्रकारकं ज्ञानमन्यथाख्यातिरूपमागतमेव । ' खण्डयति-इयं चेति (९१-१४)। इयं पूर्वोक्ता विप्रतिपत्तिः । अन्यथाख्याती न किन्तु तद्व्याप्ये इति कोऽर्थः ? अन्यथाख्यातिव्याप्ये, यथा धूमवत्त्वं वयवछिन्नं नवेयं वह्निव्याप्यत्वे विप्रतिपत्तिः, न तु वह्नौ विप्रतिपत्तिः । भवतु न्याप्य एवं विप्रतिपत्तिः ततः किमित्यत आह-स्वविषयेति (९१-१२) यद्विषयिणी विप्रतिपत्तिः तद्विषयकः संशयः, तद्विषयक एव विचारः कर्तव्यः । भवतु विप्रतिपत्तिसंशयविचाराणा समानविषयत्वं ततोऽपि किमित्यत आह-अनयेति (९१-१५) चोप्यर्थे (९१-१५) । तथा च अनया पूर्वोक्तया विप्रतिपत्त्या समानविषयकः संशयः समानविषयको विचारः कार्यः । एवं सति किमनिष्ट इत्यत आह-तद्विषय चेति । तथा च विप्रतिपत्तेरन्यथाख्यातिव्याप्यत्वं चेद् विषयः तदा व्याप्यविषयक एव विचारः । स च प्रकृते चानुपयुक्तः यतो ह्यन्यथाख्यातिरुद्देश्या, न तु अन्यथाख्यातिव्याप्यं यतो रजतार्थीति या विप्रतिपत्तिः सा व्याप्यविषयिणी । तदिति (९१-१७) अन्यथाख्यातिः तस्याः अन्यथाख्याते: व्याप्य रूपो विषयो भवति, न तु अन्यथाख्यातिरूपः । अत्र शङ्कते-न चेति (९१-१७)। तथा च व्याप्ये या विप्रतिपत्तिः सा च व्यापकविचारार्थेमेवेति नास्य विचारस्यानुपयुकत्वमित्यर्थः । अन्यथाख्यातिरूपव्यापकसिद्धयर्थ व्याप्यताधनम् । तादृशकारणत्वे तादृशज्ञानत्वावच्छिन्नलक्षणं यद व्याप्यत्वसाधनमित्यर्थः । कथायामिति (९१-१८)। वादिविवादकथायाम् । दूषयति-अप्राप्तेति (९१-१८)। अनाकासताभिधानलक्षणमप्राप्तकालत्वमित्यर्थः । अन्यथाख्यातिरूपे व्यापके आकाङ्क्षा, न तु अन्यथाख्यातिव्याप्ये ज्ञानत्वावऽच्छिन्नलक्षणे शुक्तिविशेष्यकरजतत्वप्रकारकज्ञाने आकाङ्क्षा, न तु प्रवृत्तिकारणत्वस्य पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानत्वाच्छिन्नत्वलक्षणं यदन्यथाख्यातिव्याप्यं तत्राकाङ्क्षा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270