________________
मुक्तिवादः । अत्रोच्यते । दुःखान्तरध्वंसस्यायत्नसिद्धत्वेऽपि तथाविधदुःखध्वंसस्य प्रयाससाध्ययोगाभ्याससाध्यत्वान् । दुःखोत्पादनार्थप्रवृत्तिप्रसङ्गस्त्विष्ट एव । जीवन्मुक्तिदशायां तथा प्रमाणसिद्धत्वात् । किश्च नोत्पन्नदुःखध्वंसार्थमनागतदुःखध्वंसार्थ' वा प्रवर्तते । किन्तु दुःखहेतुसंसारनाशाय । एतदेवाभिसन्धाय दुःखहेतौ दुःखत्वोपचारः, शास्त्रे हेतूच्छेदे पुरुषव्यापारादित्याहुः।
__ न च तत्रापि उत्पन्नानुत्पन्नविकल्पसम्भवेनायत्नसाध्यत्वमशक्यत्वं वा शङ्कनीयम् । उत्पन्नस्यैव दुःखहेतोरहिकण्टकादौ लोके परिहारस्य यत्नसाध्यत्वस्य दर्शनात् । न च यदि तेन हेतुना दुःखमवश्यं जनयितव्यम् तदा परिहारानुपपत्तिः । न जनयितव्यं चेत् । किमर्थ परिहरणीयमिति वाच्यम् । कण्टकादिपरिहारेऽप्यस्य समानत्वात् । न चैवम्भूतदुःखध्वंसस्याप्रामाणिकत्वम् । देवदत्तदुःखत्वम् दुःखत्वमेव वा स्वाश्रयासमानकालीनध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तिधर्मत्वात् प्रदीपसन्ततित्ववद् इत्यनुमानस्यागमस्य च विद्यमानत्वात् । तथाच न दुःखध्वंसत्वं समानाधिकरणदुःखसमानकालीनत्वव्याप्यम् ।
___ न च तुल्यायव्ययत्वेनापुरुषार्थत्वम् । अतिदुःखितस्य मुखेऽपि वैराग्यदर्शनेनैवंविधपुरुषार्थत्वस्य प्रमाणसिद्धत्वात् । न च सुखान्तमुक्तौ भोगदशायामपि मुक्तत्वप्रसङ्गो दोषाय । इष्टत्वात् । यथोक्तात्यन्तिकदुःखध्वंसस्यैव मुक्तित्वात् । न च जीवन्मुक्तिपरममुक्तयोः व्यतिभेदकानुपपत्तिः। योगजादृष्टजन्यतत्त्वसाक्षात्कारत्वस्य समानाधिकरणविशेषगुणावच्छिन्नसवासनमिथ्याज्ञानध्वंसत्वस्य च यथासम्भवं जीवन्मुक्तिपरममुक्त्योर्लक्षणस्योहनीयत्वात् । उभयसाधारणं तु सवासनमिथ्याज्ञानध्वंसत्वं तत्त्वसाक्षात्कारप्रागभावविरहत्वम्" योगजधर्मप्रागभावविरहैत्वमित्यादि स्वयमूहनीयम् ।
प्राञ्चस्तु दुःखात्यन्ताभाव एव मुक्तिरात्यन्तिकी दुःखनिवृत्तिरित्यनेनैव तस्य विवक्षितत्वात् । न चैवम् असाध्यत्वेनापुरुषार्थत्वप्रसङ्गः । आका
१. M, drops अनागतदुःखध्वंसार्थं । २ Mg reads दुःखहेतूच्छेदे । ३. P reads अशक्यसाध्यत्वं । ४. P reads उत्पन्न एव दुःखहेतौ । ५. Mg adds तत् । ६. M. reads व्याप्तम् । ७. P reads व्ययफलकत्वेन, I. O. reads फलस्वेन । ८. P reads यथोक्तोत्पन्नदुःख० । ९. P reads व्यतिरेकानु० । १०. P reads कारवत्त्वस्य । ११. P reads विरहितत्वम् in both places | १२. Ma reads स्वरूपमूह्यम् , I. O. drops स्वयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org