Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 201
________________ न्यायसिद्धान्तदीपे (८४-११) । दुःखहेत्वभावः स्वरूपत एव काम्यते । न तु किश्चित्प्रयोजनामन्तरमुद्दिश्य काम्यते येन गौणत्वं दुःखहेत्वभावस्य स्यात् । एतदेव दृष्टान्तेन विवृणोति-सपैति (८४-१२)। अहिकण्टकनाशो यः स दुःखहेत्वभावत्वेनैव काम्यते, न तु किञ्चित् प्रयोजनान्तरमुद्दिश्य काम्यते । अहिकण्टकनाशः स्वतो दुःखहेत्वभाक्त्वेन प्रयोजनं मुख्यं तद्वत् सन्ध्योपासनमपि दुःखहेत्वभावत्वेनैव स्वतः प्रयोजनमित्यर्थः । अत्राशङ्कते-न चैवमिति (८४-१३)। तथा च सति यदि दुःखहेत्वभावः स्वतः प्रयोजनं तदा सुखं दुःखाभावश्चेति प्राचां मुख्यप्रयोजनद्वयस्य विभागो न स्यादित्यर्थः । समाधत्ते दुःखाभाव (८४-१३) इति । तथाच एकविंशतिप्रमेदाद भिन्नं यदुःखमनुपासनं तदभावः सन्ध्योपासनं स्वतः प्रयोजनमेव । ननु तर्हि एकविंशतिदुःखनाशो यः स स्वतः मुख्य प्रयोजनं न स्यात् । कुतः सुखं दुःखाभाव इत्यत्र विभागे दुःस्वाभावपदेन एकविंशतिप्रभेदभिन्नदुःखस्याभावो विवक्षित इति एकविंशतिदुःखाभावस्य मुख्यप्रयोजनत्वं न स्यादित्यरुचेराहयद्वेति (८४-१५)। इदमिति (८४-१५) । सन्ध्योपासनं गौणं प्रयोजनम् । अत्राशङ्कते-नन्विति (८४-१५)। गौणत्वनिरुक्तिमाह --किञ्चिदिति (८४-१५) यथा हि तण्डुलक्रयणादिकम् ओदनरूपप्रयोजनजनकं भवतीति कृत्वा गौणं प्रयोजनं सन्ध्योपासनेन तु न किञ्चित् प्रयोजनान्तरं जन्यते इति कथं गौणत्वमित्यर्थः । समाधत्ते साधनतेति (८४-१६)। न प्रयोजनान्तरजनकत्वं किन्तु साधनताज्ञानेन जन्या या इच्छा तद्विषयत्वं, वर्तते च तण्डुलक्रयणादौ ओदनसाधनताज्ञानजन्येच्छाविषयत्वम् । नास्ति च गौणप्रयोजनत्वं सुखदुःखाभावयोः, न हि सुखं वा दुःखाभावो वा किञ्चित् साधनज्ञानजन्येच्छाविषयः । न हि सुखेन वा दुःखाभावेन कश्चिदिच्छाविषयः प्रयोजनं जन्यते । एतदिति (८४-१७)। साधनताज्ञानजन्येच्छाविषयत्वं सन्ध्योपासनस्थले असिद्धम् । न हि अनेन सन्ध्योपासनेन किञ्चित् प्रयोजनं जन्यते येन साधनताज्ञानजन्येच्छाविषयत्वं गौणत्वं भविष्यतीत्यर्थः । अनुपपत्तिपूर्वकं समाधत्ते-यधपीति (८४-१७)। तथाऽपीति (८४-१८)। तथा चानुपासनस्य प्रत्यवायसाधनत्वात् प्रत्यवायप्रतियोगिकसाधनताज्ञानजन्येच्छाविषयत्वं वर्तते । तदभावत्वेनेति (८४-१९)। प्रत्यवायसाधनायाभावत्वेन सन्ध्योपासनस्य प्रयोजनत्वं सम्भवत्येव । तथाच एवंसति सन्ध्योपासनस्थले प्रतियोग्यंशे साधनताज्ञानजन्येच्छाविषयत्वमादाय तदभावत्वेन प्रत्यवायाभावनिरूपितसाधनताज्ञानजन्येच्छाविषयत्वेन गौणत्वं सन्ध्योपासनस्य तिष्ठत्येव । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270