Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 199
________________ १६२ न्यायसिद्धान्तदीपे पापं तं प्रति सन्ध्योपासनस्य सफलता यो निशि पापाचरणं न करोति तं प्रति सन्ध्योपासनस्य सफलता न स्यादित्याह-नित्यतेति (८३-१९) । यो निशि पापाचरणं न करोति तं प्रति सन्ध्योपासनमावश्यकं न स्यादिति नित्यस्वविरोधः । दूषणान्तरमाह अहरहरिति (८३-१९) । तथा च स्नानादिकं तु दिवसकृत्यमेव तत्र निशिकृतपापस्य प्रसक्तिरेव नास्ति । अहरहःस्नानस्य सफलता न स्यात् । तदभावादिति (८३-२०) इष्टाभावादिति । मभ्ये शङ्कते न चेति (८३-२०) । तदभाव (८३-२०) इति । अनुपासनजन्यप्रत्यवायपरिहार एव सन्ध्योपासनफलम् । दूषयति -उपासनस्येति (८३-२१) अनुपासनाभावः किं उपासनरूपो वा किमनुपासनजन्यप्रत्यवायाभावः । अन्त्येअन्योन्याश्रयादिति वक्ष्यति । आये त्वाह-फलत्व (८३-२१) इति । एकस्यैव स्वं प्रति फलत्वं साधनत्वं च विरुद्धम् । दूषणान्तरमाह-न चेति (८३-२१)। तथाच उपासनं न स्वतः प्रयोजनम् । न वा गौणं प्रयोजनं सम्भवति । तदेव विवृणोति-सुख (८३-२२) इति । सुखं वा दुःखाभावो वा स्वतः प्रयोजनं, न चोपासनं सुखं वा दुःखाभावरूपं वा तत्त्वादिति (८३-२३)। सुखदुःखाभावयोः स्वतः इच्छाविषयत्वात् । अन्येषाम् इच्छाविषयत्वं सुखसाधनत्वेन, नाप्रि गौणप्रयोजनमित्याह-नेतर (८३-२३) इति । सुखसाधनं वा दुःखाभावसाधनं वा गौणं प्रयोजनम्-तत्त्वादिति (८३-२३) । गोणप्रयोजनत्वादिति । प्रवर्तमानस्य पुरुषस्य मुख्य प्रयोजनं सुख दुःखाभावश्च । तत्साधनं च गौण प्रयोजनम् । गौणप्रयोजनं नास्तीत्याह-नचेति (८३-२३)। सन्ध्योपासनेन सुखं वा. दुःखाभावरूपं प्रयोजनं न जन्यते । ... नैयायिको गुरुमतं दूषयति यत् स्विति (८३-२४)। प्रत्यवायविरोधि व्यर्थमपूर्व सन्ध्योपासनेन जन्यते । व्यापूर्वस्य कथं प्रयोजनत्वम् इत्यत आहतच्चेति (८४-१) । व्यापूर्वं प्रत्यवायविरोधि भवति । प्रत्यवायो दुःखहेतुभवति, तद्विरोधित्वात् दुःखविरोधित्वाच्च व्यर्थापूर्व तत्काम्यम् इच्छाविषयं भवति । प्रत्यवायविरोधित्वेन व्यापूर्वस्य काम्यतेत्याह-न विति-(८४-१) । व्यर्थापूर्वस्म अपूर्वत्वेन काम्यता नास्ति किन्तु प्रत्यवायविरोधित्वेन काम्यता । दूषयतिपूर्वोक्तेनेति (८४-२) । व्यापूर्वस्य यदि अपूर्वत्वेन काम्यता तदा अपूर्वस्वहानिः स्यादिति हेतोय॑र्थापूर्वस्य प्रत्यवायविरोधित्वेनैव काम्यत्वम् । अयमाशयःतद् यदपूर्व तत्प्रत्यवायविरोधि, कः प्रत्यवायो निशि कृतः प्रत्यवायो वाऽनुपासनजन्यः प्रत्यवायों वा यस्यापूर्व विरोधि । नाघः निशिकृतप्रत्यवायस्य सर्वत्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270