Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 197
________________ २६० म्यायसिद्धान्तदीपे समाधत्ते बलवदिति (८३-४)। न कलज भक्षयेदित्यत्र इष्टसाधनत्वज्ञाने विद्यमानेऽपि प्रवृत्तिर्न जायते । तत्र प्राभाकरमते बलवदनिष्टानुबन्धित्वज्ञानं प्रवृत्ती प्रतिबन्धकम् । तथाच बलवदनिष्टानुबन्धित्वज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वेऽपि । तदभावस्येति (८३-४)। बलवदनिष्टानुवन्धित्वज्ञानाभावस्य कारणत्वं वक्तव्यमेव । एवं सति प्रवृत्ती बलवदनिष्टानुबन्धित्वज्ञानाभावो वा कारणं किं वा बलवदनिष्टाननुबन्धीष्टसाधनत्वज्ञानं वा प्रवर्तकं तत्र क्लप्तेष्टसाधनत्वज्ञानरूपे कारणे कारणतावच्छेदकं विषयतया बलवदनिष्टाननुबन्धित्वमेव वक्तव्यम् । तदभावेति (८३५)। बलवदनिष्टानुबन्धित्वज्ञानाभावः । तथाच बलवदनिष्टानुबन्धित्वज्ञानाभावबलवदनिष्टाननुबन्धित्वज्ञानयोर्विनिगमनाभावेन उभयोः कारणत्वे प्रसक्ते यस्यैव कारणतायां लाघवं तदेव कारणं क्लृप्तेष्टसाधनत्वज्ञानरूपे कारणे विषयतया बलवदनिष्टाननुबन्धित्वमेव कारणतावच्छेदकं कल्पनीयम् । कारणान्तरकल्पनापेक्षया क्लप्तकारणतायामवच्छेदककल्पनैव लघीयसी । एवमिति (८३-७) । तथाच क्लप्तेष्टसाधनताज्ञानकारणतायां विषयतया बलवदनिष्टाननुबन्धित्वमेवावच्छेदकमित्यर्थः । तथाच बलवदनिष्टाननुबन्धीष्टसाधनत्वज्ञानस्य प्रवर्तकत्वे सिद्धे यदेव प्रवर्तकज्ञानविषयीभूतं तदेव विध्यर्थः । प्रकृतमुपसंहरति । तथाचेति (८३-८) । विधिप्रत्ययस्य बलवदनिष्टाननुबन्धीष्टसाधनत्वं वाच्यम् । एवं सति न कलञ्ज भक्षयेदिति लिङ्प्रत्ययेन बलवदनिष्टाननुबन्धीष्टसाधनत्वे उपस्थापिते इष्टसाधनत्वविशेषणीभूतं यद्बलवदनिष्टाननुबन्धित्वं तस्यैव निषेधो नना बोध्यते । यद्यपि पदार्थः पदार्थेन विशेष्येण सहान्वेति न तु विशेषणेन निराकासत्वात् तथापि अनन्यगत्या क्वचिद्विशेषणेनापि साकाङ्क्षत्वम् । अत एवाह-अनिच्छयाऽपीति (८३-९) विशेषणे नो यद्यप्याकाङ्क्षा नास्ति तथाच यत्र विशेष्ये बाधस्तत्र विशेषणेन सहान्वयः अत एव सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति । केवलम् इष्टसाधनत्वविध्यर्थवादिनामेवेदम् इति न हि किन्तु कार्यतावादिनोऽपोत्याह-अन्यथेति (८३-९)। कार्यताविध्यर्थवादिना । तामेवानुपपत्तिमाह-न हीति (८३-१०)। यथा कलाभक्षणस्य तृप्तिरूपेष्टसाधनत्वात् तन्निषेधो न सम्भवति तथाच कलजभक्षणस्य चिकीर्षाजन्यकृतिसाध्यत्वादपि चिकीर्षाजन्यकृति साध्यत्वनिषेधो न सम्भवति । तस्याऽपोति (८३-१०)। कार्यताविधिवादिनोऽपि । बाधादिति (८३-११) । कलजभक्षणे चिकीर्षाजन्यकृतिसाध्यत्वं वर्तते चिकीर्षाजन्यकृतिसाध्यत्वाभावो नास्तीति बाधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270