Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 206
________________ विधिवादटिप्पनम् । साधनत्वान्वयापर्यवसानम् । साधनत्वान्वयापर्यवसानं नास्तीत्यत्र युक्तिमाहसाधनत्वं हीति (८६-१) इ(ई)तप्रत्ययेन साधनत्वे उपस्थापिते तत्साधनत्वं कस्येत्याकाक्षायां सन्निहितत्वात् यागरूपसाध्यान्वय एव पर्यवस्यति । ननु स्वर्गपदोपस्थापितस्य स्वर्गस्य साकाङ्क्षत्वात् साधनत्वान्वयेन विना अन्वयापर्यवसानात् स्वर्गान्वयलाभार्थ भिन्नपदोपस्थाप्येनापि स्वर्गेण साधनत्वान्वयो भविष्यति इत्यत आह-न स्विति (८६-२) । लब्धः पुरुषेण सहान्वयो येन स्वर्गेण । तथाच स्वर्गकाम इत्यत्र स्वर्गस्य काम्यता यस्य एवम्भूतो यः स्वर्गकामः पुरुष इत्यर्थे लब्धे स्वर्गस्य पुरुषेणैव साकाङ्कत्वात् पुरुषेण सहैवान्वयपर्यवसाने साधनत्वेन निराकासः स्वर्गों न साधनत्वान्वये पर्यवस्यति । तथा च स्वर्गस्य पुरुषेणैवान्वयो लब्धो न तु साधनत्वेन ।। अत्र शङ्कते-पचतीति (८६-३)। ओदनं पचतीत्यत्र यथा देवदत्तान्वितः पाकः एवं यागोऽपि स्वर्गवत् पुरुषान्वित इति यागस्वर्गयोस्तुल्यत्वे कथं यागस्य साधनत्वान्वयो न स्वर्गस्येत्यर्थः । समाधत्ते-एवमिति (८६-३) यागस्वर्गयोर्लब्धान्वये समानेऽपि साधनत्वं याग एवान्वेति न तु स्वर्गेण । तत्र हेतुमाह-सन्निहितेति (८६-४)। प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् । अतः इ(ई)तप्रत्ययः प्रकृत्यर्थो यो यागस्तत्रैवान्वेति । तथात्वमिति (८६-४)। साधनत्वान्वयसम्भव इत्यर्थः । इष्टसाधनत्वस्य लिङर्थत्वेऽपि यागरूपसाध्येनैव साधनत्वान्वयः स्यात् । इत्यत आह-इष्टसाधनतेति (८६-४)। इष्टसाधनत्वं यदि लिङर्थस्तदा इ(ई) तप्रत्ययेन इष्टस्य साधनत्वस्योपस्थितौ एकपदोस्थाप्यत्वसन्निधानवशात् साधनत्वमादौ इष्टे एवान्वेति न तु यागेन । कुतः, इण्टेन सह साकाङ्क्षत्वात्, योग्यत्वाच्च, पश्चाद् इष्टान्वयानन्तरं प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वं सन्निधानवशात् याग इष्टसाधनमित्यन्वयबोध इत्यर्थः । तदेवेति (८६-५) । इष्टमेवेत्यर्थः । अन्वयमिति (८६-५) साधनत्वान्वययोग्यमित्यर्थः । अत (८६-५) इति । इष्टसाधनत्वाभिधानमेव योग्यमित्यर्थः । अत्रानुकूलयुक्तिमाह । अत एवेति (८६-५)। अश्रुतफले विश्वजिता यजेत इति वाक्ये विश्वजिद्याग इष्टसाधनमिति प्रथमतो नान्वयबोधः । किन्तु सामान्यतः स्वर्गरूपं फलं प्रकल्प्य स्वर्गरूपेष्टसाधनं विश्वजियाग १. इत्प्रत्ययार्थेन । २. इत्प्रत्ययार्थेन । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270