________________
१७८
न्यायसिद्धान्तदीपे सिद्धान्तमाह-साधनत्वस्येति (८८-२१)। आशुतरविनाशियागक्रियायां कालान्तरभाविफलसाधनत्वस्य फलकारणत्वस्यान्वयायोग्यतया वैदिकस्थले व्यापारेऽपूर्वे शक्तिः लौकिकस्थले व्यापारे लक्षणा इति प्राभाकरस्याभिमतमिति पूर्वानुवादः । दूषयति-एतच्चेति (८८-२२) । अन्वयायोग्यतेत्यत्र क्रियायां इष्टसाधनत्वान्वये योग्यता नास्ति । तत्र का योग्यता नास्ति ? इत्याह-कासाविति (८८-२२)। या आशुतरविनाशिक्रियायां योग्यता नास्ति सा का इत्याह ?-न तावदिति (८८२३)। सजातीय (८८-२३) इति । घटेन जलमाहरेत्यत्र घटत्वेन रूपेण घटसजातीये जलाहरणान्वयदर्शनं वर्तते इति घटेन जलमाहरेत्यत्राऽन्वययोग्यताऽस्ति । वह्निना सिञ्चेदित्यत्रायोग्ये वाक्ये इदं लक्षणं सजातीयेऽन्वयदर्शनमित्यादिकं नास्ति । वह्नित्वेन रूपेण वह्निजातीये कुत्रापि वह्नौ सिञ्चनान्वयदर्शनं कुत्रापि' दृष्टं नास्ति । तत्र वह्निना सिञ्चेदिति वाक्ये सजातीयेऽन्वयदर्शनमिति लक्षणं नास्ति ।
इदं लक्षण दूषयति-न तावदिति (८८-२४)। सजातीयेऽन्वयदर्शनमित्यत्र यत् साजात्यं विवक्षितं क्रियाकारकपदार्थयोस्तत् किं येन केन रूपेण वा पदार्थतावच्छेदकरूपेण वा । आधे आह-अग्निनेति (८८-२४)। द्रव्यत्वेन रूपेणाग्निसजातीये जलादी सिञ्चनान्वयस्य दृष्टत्वात् तत्रापि योग्यता स्यादित्यर्थः । द्वितीये त्वाह-पदार्थतेति (८८-२५)। अग्निना सिञ्चेदित्यत्र यत् किञ्चिद्रपं द्रव्यत्वादिकं तेन रूपेण वह्निसजातीये जले यद्यपि सिञ्चनान्वयदर्शनं वर्तते तथापि पदार्थतावच्छेदकरूपेण वह्नित्वादिना वह्निसजातीये सिञ्चनान्वयदर्शनं नास्तीत्यतिप्रसङ्गो न । यदि पदार्थतावच्छेदकरूपेण साजात्यं विवक्षितं तर्हि दोषमाह-अधजात (८८-२५) इति । अद्यजातगोत्वेन रूपेण पयःपानान्वयः कुत्रापि दृष्टो नास्तीति तत्र योग्यता न स्यात् । अत्र यद्यप्यद्यजातगोत्वं न पदार्थतावच्छेदकं किन्तु अद्य १ जात २ गौ ३ त्रयाणां पदानां यो वाक्यार्थस्तस्यावच्छेदकं, परं न पदार्थतावच्छेदकम् । पदार्थतावच्छेदकं तु अद्यत्वं १ जातत्वं २ गोत्वं ३ तेन तेन रूपेण सजातीयेऽद्यत्वेन सजातीये १ जातत्वेन सजातीये २ गोत्वेन सजातीये ३ अन्वयदर्शनं वर्तते एवेति नायं दोषः । तथाप्यद्यजातगोशब्देन शृङ्गमाहिकान्यायेन अयं पयः पिबतीति
3. one r is redundant. But I think this is a peculiarity of गुणरत्न's style |
२. To use only प्रातिपदिक's in this manner without a suitable विभक्ति is also a peculiarity of गुणरत्न's style. Or, it may be the style of the scribe.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org