Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 216
________________ अपूर्ववादटिप्पनम् । १७९ वाक्ये एतत्वेन रूपेण सजातीयोऽन्यो नास्तीति तत्र योग्यतालक्षणं नास्तीत्ययं दोषो द्रष्टव्यः । तदभावादिति (८९-१) तस्य सजातोयान्वयदर्शनरूपयोग्यतालक्षणस्याभावादित्यर्थः । . अशक्येति(८९-१)। एकस्मिन् पदार्थे अपरपदार्थाभावाप्रतियोगित्वं योग्यता । वह्निना सिञ्चेदित्यत्र इदं योग्यतालक्षणं नास्ति । सिञ्चनपदार्थस्य वह्निपदार्थनिष्ठो यः सिञ्चनपदार्थाभावस्तत्प्रतियोगित्वमेव सिञ्चनस्य वर्तते । विलोक्यतेऽप्रतियोगित्वं जलेन सिञ्चतीत्यत्र । इदं पूर्वोक्तं लक्षणं वर्तते, सिञ्चनपदार्थस्य जलपदार्थनिष्ठो योऽभावः स सिञ्चनाभावो जले नास्ति किन्तु घटाघभावस्तस्याप्रतियोगित्वं जले तिष्ठति । इदमपि योग्यतालक्षणं निर्वक्तुं न शक्यते । वृक्षः कपिसंयोगीत्यादौ एतल्लक्षणाभावः । कुतः ? इदं योग्य वाक्यं भवति । अत्र इदं योग्यतालक्षणं नास्ति, कुतः ? वृक्षपदार्थेऽपरपदार्थस्य योऽभावः कपिसंयोगाभावस्तत्प्रतियोगित्वमेव कपिसंयोगे वर्त्तते इत्यादिकमपि लक्षणं न सम्भवति । किं तद्योग्यतालक्षणमित्यत आह- तस्मादिति (८९-२)। बाधकप्रमाणाभाव एव योग्यता । परस्परपदार्थसंसर्गाबाध इत्यर्थः । स च वह्निना सिञ्चेदित्यत्र नास्ति । परस्परपदार्थयोः वह्निसिञ्चनयोः संसर्गे बाधकमेवास्ति । जलेन सिञ्चतीत्यत्र जलसिञ्चनपदार्थयोः संसर्गे बाधो नास्ति । तत्र योग्यतालक्षणं वर्तते । तद्योग्यतालक्षणं योजयति-सा चेति (८९-२)। यागस्वर्गसाधनत्वपदार्थयोः संसर्गे कुत्रापि बाधस्तु दृष्टो नास्ति इति तत्र योग्यता वर्तते किमर्थमपूर्व लिङादिवाच्यम् । सा चेति (८९-२) । बाधकप्रमाणाभावो योग्यता । अत्रेति यागस्वर्गसाधनत्वयोर्वर्त्तत एव । साधनत्वेनेति (८९-३)। साधनत्वेन प्रकारेण सा बाधकप्रमाणाभावो योग्यता वर्तते एव । स बाधकप्रमाणाभावः कथं वर्तत इत्यत आह-न हीति (८९-३)। यागे स्वर्गसाधनत्वं केनापि प्रमाणेन बाधित दृष्टं नास्ति येन बाधकप्रमाणाभावरूपा योग्यता न स्यात् । किञ्च लिङादिवाध्यमपूर्वं तदा स्यात् यदि यागे स्वर्गसाधनत्वबोधः, परम्पराघटकव्यापारमादायैवं चेत् स्यात् तदा परम्पराघटकोपस्थित्यथै लिङादिवाच्यमपूर्व स्यात् । तच्च नास्त्येवेत्याह-न चेति (८९-४)। न हि कपालस्य घटकारणत्वबोधे व्यापारमादाय घटकारणत्वबोधः । अन्वयबोध (८९-४) इति । साधनत्वबोध इत्यर्थः । एतदेवाह-प्रमाणाभावादिति (८९-४)। सर्वत्र साधनत्वबोधः व्यापारमन्तर्भाव्यैव भवतीत्यं नियमो नास्ति । अत्र प्रमाणं नास्तीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270