Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 218
________________ अपूर्ववादटिप्पनम् । १८१ तथाच विशेषणबाधे विशेषणस्यान्वयो मा भूत् । विशेषणस्य साक्षात्वस्य बाधे साक्षात् कारणत्वस्य अन्वयो मा भूत् । कारणत्वसामान्यं यद् विशेष्यं तस्यान्वयबाधस्तु नास्तीत्याह-तथात्रेति (८९-१०)। विशेषणे साक्षात्त्वरूपे बाधात् । तस्येति (८९-११)। साक्षात्त्वकारणत्वस्यान्वयो यागेऽन्वयो मा भूत् । ननु साक्षात्त्वरूपकारणबाधे कस्यान्वयो भविष्यतीत्यत आह-सामान्येति(८९११)। साधनत्वसामान्यस्येत्यर्थः । एकविशेषबाधे सामान्यान्वयबाधो नास्तीत्यत्रानुरूपं दृष्टान्तमाह-दण्डेति(८९-११)। पुरुषो विशेष्यं तस्यादण्डिभ्यो व्यावर्तकत्वाद्विशेषो विशेषणं दण्डस्तस्य बाधेऽपि विशेष्यस्य पुरुषस्य बाधो नास्ति किन्तु पुरुषस्यान्वय एव । पूर्वोक्तं दृष्टान्तमपि निराकरोति । एवमिति(८९-१२)। घटे छिद्रत्वं विशेषधर्मः । तस्य बाधेऽपि छिद्रत्वेन जलाहरणान्वयो मा भूत् घटत्वेन रूपेश स्यादेवान्वय इत्याह-घटत्वेनेति (८९-१२)। तत्रापीति(८९-१३) । जलाहरणादौ घटत्वेनान्वयबोधोऽविरुद्ध एव । अत्राशङ्कते-घटत्वस्येति(८९-१३)। अयोग्यवृत्तिधर्मेण घटत्वेन कथमन्वयः । जलाहरणेऽयोग्यो यः छिद्रघटस्तवृत्तिना घटत्वेन कथं जलाहरणान्वयः । छिद्रसाधारण्यादिति (८९-१३) । घटत्वस्य छिद्रघटवृत्तित्वादित्यर्थः । यथाऽच्छिद्रे घटे घटत्वं तद्वत् सच्छिद्रेऽपि घटत्वं वर्तत एवे यर्थः । समाधत्ते-तथात्वे(८९-१४) इति । अयोग्यवृत्तिधर्मेण नान्वय इति न, किन्तु अयोग्यमात्रवृत्तिधर्मेणान्वयो वर्तते । अन्यथा गोत्वस्य देशान्तरगोवृत्तितया देशान्तरगोव्यक्तेशनयनान्वयासम्भवेन गोत्वेनानयनान्वयो न स्यात् । तत्र यदि अयोग्यां गोव्यक्तिमपट्टाय योग्यगोव्यक्तिमादाय गोत्वेनानयनान्वयः न तु देशान्तरस्थगधेतरगोत्वेनान्वयस्तथाऽत्रापि घटत्वस्यायोग्यछिद्रवृत्तित्वेऽपि योग्यतया छिद्रव्यक्तिमपहायाच्छिद्रव्यक्तिमादाय घटत्वेनैवान्वयो न तु छिद्रेतरघटत्वेनेत्यर्थः । तथात्वेऽपीति (८९-१४)। घटत्वस्यायोग्यत्ववृत्तित्वेपीत्यर्थः। ननु योग्यमात्रवृत्तिधर्मेणैव सर्वत्र क्रियान्क्यो न तु योग्यायोग्यसाधारणेन धर्मेण अत एव देशान्तरस्थगोव्यक्तेरानयनान्वयायोग्यत्वेऽपि गोपदलक्षणया देशान्तरस्थगवेतरगोत्वेन रूपेणोपस्थितौ आनयनान्वयः । एवं घटपदलक्षणयाऽपि छिद्रेतरत्वेनोपस्थितौ जलाहरणान्वय इत्यत आह-नत्विति (८९-१४) । अच्छिद्रत्वेनेत्यर्थः । बाधकमाह -युगपदिति (८९-१४) घटपदात् शक्त्या घटत्वेनोपस्थितिलक्षणयाऽच्छिद्रत्वेन तदा युगपत्तिद्वयविरोधः । युगपदवृत्तिद्वयविरोधस्या(८९-१५)यमर्थः द्वाभ्यां वृत्तिभ्यां एकदा एकस्मात् पदान्नानार्थोपस्थितिस्तु नास्त्येव, तथाच घटपदात् शक्त्या घटत्वेनोपस्थिती लक्षणया छिदेतरत्वे एकदा एकस्माद् घटपदात् उपस्थितौ वृत्तिद्वयविरोधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270