________________
विधिवादटिप्पनम् । साधनत्वान्वयापर्यवसानम् । साधनत्वान्वयापर्यवसानं नास्तीत्यत्र युक्तिमाहसाधनत्वं हीति (८६-१) इ(ई)तप्रत्ययेन साधनत्वे उपस्थापिते तत्साधनत्वं कस्येत्याकाक्षायां सन्निहितत्वात् यागरूपसाध्यान्वय एव पर्यवस्यति ।
ननु स्वर्गपदोपस्थापितस्य स्वर्गस्य साकाङ्क्षत्वात् साधनत्वान्वयेन विना अन्वयापर्यवसानात् स्वर्गान्वयलाभार्थ भिन्नपदोपस्थाप्येनापि स्वर्गेण साधनत्वान्वयो भविष्यति इत्यत आह-न स्विति (८६-२) । लब्धः पुरुषेण सहान्वयो येन स्वर्गेण । तथाच स्वर्गकाम इत्यत्र स्वर्गस्य काम्यता यस्य एवम्भूतो यः स्वर्गकामः पुरुष इत्यर्थे लब्धे स्वर्गस्य पुरुषेणैव साकाङ्कत्वात् पुरुषेण सहैवान्वयपर्यवसाने साधनत्वेन निराकासः स्वर्गों न साधनत्वान्वये पर्यवस्यति । तथा च स्वर्गस्य पुरुषेणैवान्वयो लब्धो न तु साधनत्वेन ।।
अत्र शङ्कते-पचतीति (८६-३)। ओदनं पचतीत्यत्र यथा देवदत्तान्वितः पाकः एवं यागोऽपि स्वर्गवत् पुरुषान्वित इति यागस्वर्गयोस्तुल्यत्वे कथं यागस्य साधनत्वान्वयो न स्वर्गस्येत्यर्थः । समाधत्ते-एवमिति (८६-३) यागस्वर्गयोर्लब्धान्वये समानेऽपि साधनत्वं याग एवान्वेति न तु स्वर्गेण । तत्र हेतुमाह-सन्निहितेति (८६-४)। प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् । अतः इ(ई)तप्रत्ययः प्रकृत्यर्थो यो यागस्तत्रैवान्वेति । तथात्वमिति (८६-४)। साधनत्वान्वयसम्भव इत्यर्थः ।
इष्टसाधनत्वस्य लिङर्थत्वेऽपि यागरूपसाध्येनैव साधनत्वान्वयः स्यात् । इत्यत आह-इष्टसाधनतेति (८६-४)। इष्टसाधनत्वं यदि लिङर्थस्तदा इ(ई) तप्रत्ययेन इष्टस्य साधनत्वस्योपस्थितौ एकपदोस्थाप्यत्वसन्निधानवशात् साधनत्वमादौ इष्टे एवान्वेति न तु यागेन । कुतः, इण्टेन सह साकाङ्क्षत्वात्, योग्यत्वाच्च, पश्चाद् इष्टान्वयानन्तरं प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वं सन्निधानवशात् याग इष्टसाधनमित्यन्वयबोध इत्यर्थः । तदेवेति (८६-५) । इष्टमेवेत्यर्थः । अन्वयमिति (८६-५) साधनत्वान्वययोग्यमित्यर्थः । अत (८६-५) इति । इष्टसाधनत्वाभिधानमेव योग्यमित्यर्थः । अत्रानुकूलयुक्तिमाह । अत एवेति (८६-५)। अश्रुतफले विश्वजिता यजेत इति वाक्ये विश्वजिद्याग इष्टसाधनमिति प्रथमतो नान्वयबोधः । किन्तु सामान्यतः स्वर्गरूपं फलं प्रकल्प्य स्वर्गरूपेष्टसाधनं विश्वजियाग
१. इत्प्रत्ययार्थेन । २. इत्प्रत्ययार्थेन ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org