________________
१६८
न्यायलिबान्तदीप समभिव्याहार आवश्यक साधनत्वमात्र एव शक्तिरस्तु स्वर्गसाधनत्वं तु समभिव्या'हारादेव भविष्यतीति न इष्टत्वांशे शक्तिरित्यर्थः । तर्कस्येति(८५-१९) । साधनत्वमात्र एव लिङादिशक्तिरित्यत्र तर्कस्योपजीव्यत्वादित्यर्थः ।
ननु यदि साधनत्वमात्रे लिङादिशक्तिः तदा इष्टसाधनत्वं लिशक्यमिति भाष्यवार्तिकादिविरोध इत्यत आह--वाक्याति(८५-२०)। स्वर्गादिपदसमभिव्याहारेण यो वाक्याथैस्तदभिप्रायेण इष्टसाधनता शक्या इति व्यवहारः । न विति (८५-२०)।लिशक्यार्थाभिप्रायेणेति इष्टसाधनता शक्या इति न व्यवहारः । केवलं लिङ्वाच्यं इष्टसाधनत्वं न किन्तु स्वर्गादिपदसमभिव्याहारेण इष्टसाधनत्वं लिङा वाच्यम् । एतेन नैयायिकसिद्धान्तविरोधोऽपि न । यदापि इष्टसाधनत्वे शक्तिस्तदाऽपि नानुपपत्तिरित्याह-फलेति(८५-२१) । नहीष्टसाधनत्वे लिशक्तिवादिनो मते इच्छाज्ञानमपि प्रवर्तकम् इति न हि, किन्तु इच्छांशे स्वरूपसती इच्छाविषयसाधनत्वे ज्ञाता अङ्गीक्रियते । एवं सति न इच्छाज्ञानं प्रवर्तक न वा इष्टसाधनत्वे लिशक्तिरिति सिद्धान्तविरोधोऽपि । तथाच इष्टसाधनत्वं लिङ् शक्यमेवास्तु । यथा घटपदस्य घटज्ञाने शक्तिः अत एव वस्तुतस्तु ज्ञाने पदानां शक्तिः शक्यत्वात् । तत्र च घटपदस्य ज्ञानांशे ज्ञाता शक्तिरुपयुज्यते न वा घटपदेन शक्त्या घटज्ञानमुपस्थाप्यते किन्तु ज्ञानांशे स्वरूपसती घटांशे ज्ञाता एतादृशी शक्तिस्तया घटपदेन घटपदार्थस्य ज्ञानं क्रियते । एवम् इच्छांशे स्वरूपसती तद्विषयसाधनत्वे ज्ञाता तया शक्त्या स्वरूपसदिच्छाविषयसाधनत्वज्ञानं क्रियते ।
साधनत्वमात्रे लिशक्तिरिति पूर्वमते बाधकमाह-अन्यथेति (८५-२२) । यदि लिङ्प्रत्ययेन साधनत्वमात्रमुपस्थाप्यते तदा स्वर्गसाधनत्वज्ञानाभावे प्रवृत्तिरेव न स्यादित्यर्थः । अत्राशङ्कते-न चेति (८५-२२)। तथाच स्वर्गोपायत्वलाभार्थ लिङ्प्रत्ययस्य इष्टसाधनत्वे शक्तिरङ्गीक्रियते, तदा स्वर्गरूपेष्टसाधनत्वलाभस्तु स्वर्गादिसमभिव्याहारादेव भविष्यति किमर्थम् इष्टसाधनत्वे शक्तिरित्यर्थः । दूषयति समभिव्याहारादपीति (८५-२३)। सर्वत्र वाक्यार्थबोधे पदसमभिव्याहारात् स एवार्थोऽन्वेति यं विनाऽन्वयाऽनुपपत्तिस्तदेवान्वयापर्यवसानमित्यर्थः । न च प्रकृते तदस्तीत्याह-नहीति,(८५-२४) । स्वर्गकामो यजेत इत्यत्र यजिपदात् यागः इ(ईतप्रत्ययात् साधनत्वम् एवमुपस्थिते सति यत्साधनत्वं प्रत्ययार्थः स प्रकृत्यर्थे एवा. न्वेति अन्तरङ्गत्वात् न तु बहिरङ्गेण स्वर्गादिना । एवं सति यागरूपं यत् साध्यं तेन सह लिङ्प्रत्ययार्थः साधनत्वमन्वेति इति नान्वयापर्यवसानमित्यर्थः । तदिति(८६-१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org